वसू॑नां भा॒गो॒ऽसि रु॒द्राणा॒माधि॑पत्यं॒ चतु॑ष्पात् स्पृ॒तं च॑तुर्वि॒ᳪश स्तोम॑ आदि॒त्यानां॑ भा॒गो॒ऽसि म॒रुता॒माधि॑पत्यं॒ गर्भा॑ स्पृ॒ताः प॑ञ्चवि॒ᳪश॒ स्तोमो ऽदि॑त्यै भा॒गो॒ऽसि पू॒ष्ण आधि॑पत्य॒मोज॑ स्पृ॒तं त्रि॑ण॒व स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॒ऽसि बृह॒स्पते॒राधि॑पत्यᳪ स॒मीची॒र्दिश॑ स्पृ॒ताश्च॑तुष्टो॒म स्तोम॑:
vasū́nāṃ bhāgó ’si rudrā́ṇām ádhipatyaṃ catúṣpāt spṛtáṃ caturviṃśá stóma ādityā́nāṃ bhāgó ’si marútām ádhipatyaṃ gárbhāḥ spṛtā́ḥ pañcaviṃśá stómo ’dítyai bhāgó ’si pūṣṇá ádhipatyam ójaḥ spṛtáṃ triṇavá stómo devásya savitúr bhāgó ’si bṛ́haspáter ádhipatyaṃ samī́cīr díśaḥ spṛtā́ś catuṣṭóma stómaḥ
Ты — доля Васу; владычество Рудр — «четвероногое», должным образом утверждённое; стома Чатурвимша. Ты — доля Адитьев; владычество Марутов — «зародыши», должным образом утверждённые; стома Панчавимша. Ты — доля Адити; владычество Пушана — сила (оджас), должным образом утверждённая; стома Тринав. Ты — доля бога Савитара; владычество Брихаспати — «согласные стороны света», должным образом утверждённые; стома Чатуштома.
वसूनाम् । भागः । असि । रुद्राणाम् । आधिपत्यम् । चतुष्पात् । स्पृतम् । चतुर्विंशः । स्तोमः । आदित्यानाम् । भागः । असि । मरुताम् । आधिपत्यम् । गर्भाः । स्पृताः । पञ्चविंशः । स्तोमः । अदित्यै । भागः । असि । पूष्णः । आधिपत्यम् । ओजः । स्पृतम् । त्रिणवः । स्तोमः । देवस्य । सवितुः । भागः । असि । बृहस्पतेः । आधिपत्यम् । समीचीः । दिशः । स्पृताः । चतुष्टोमः । स्तोमः ।