विष्णो॒: क्रमो॑ऽसि सपत्न॒हा गा॑य॒त्रं छन्द॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ विष्णो॒: क्रमो॑ऽस्यभिमाति॒हा त्रै॑ष्टुभं॒ छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व विष्णो॒: क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑तं॒ छन्द॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व विष्णो॒: क्रमो॑ऽसि शत्रूय॒तो ह॒न्ताऽऽनु॑ष्टुभं॒ छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व
víṣṇoḥ krámo’si sapatnáhā gāyatráṃ chánda ā́ roha pṛthivī́m ánu ví kramasva | víṣṇoḥ krámo’sy abhimātihā́ traíṣṭubhaṃ chánda ā́ rohāntárikṣam ánu ví kramasva | víṣṇoḥ krámo’sy rātīyató hántā jā́gataṃ chánda ā́ roha dívaṃ ánu ví kramasva | víṣṇoḥ krámo’si śatrūyató hántā́’nuṣṭubhaṃ chánda ā́ roha díśo’nu ví kramasva
Ты — шаг Вишну, губитель соперников: взойди на размер Гаятри; пройди, ступая по земле. Ты — шаг Вишну, губитель враждебного натиска: взойди на размер Триштубх; пройди, ступая по воздушному пространству. Ты — шаг Вишну, поражающий удерживающего дары: взойди на размер Джагати; пройди, ступая по небу. Ты — шаг Вишну, поражающий враждебного: взойди на размер Ануштубх; пройди, ступая по сторонам света.
विष्णोः । क्रमः । असि । स-पत्न-हा । गायत्रम् । छन्दः । आ । रोह । पृथिवीम् । अनु । वि । क्रमस्व । विष्णोः । क्रमः । असि । अभि-माति-हा । त्रैष्टुभम् । छन्दः । आ । रोह । अन्तरिक्षम् । अनु । वि । क्रमस्व । विष्णोः । क्रमः । असि । राति-यतः । हन्ता । जागतम् । छन्दः । आ । रोह । दिवम् । अनु । वि । क्रमस्व । विष्णोः । क्रमः । असि । शत्रू-यतः । हन्ता । आनुष्टुभम् । छन्दः । आ । रोह । दिशः । अनु । वि । क्रमस्व