अदि॑त्यै॒ रास्ना॒स्यदि॑तिष्टे॒ बिलं॑ गृभ्णातु । कृ॒त्वाय॒ सा म॒हीमु॒खां मृ॒न्मयीं॒ योनि॑म॒ग्नये॑ । पु॒त्रेभ्य॒: प्राय॑च्छ॒ददि॑तिः श्र॒पया॒निति॑
adityai rāsnā asi aditis te bilaṃ gṛbhṇātu | kṛtvāya sā mahīm ukhāṃ mṛṇmayīṃ yonim agnaye | putrebhyaḥ prāyacchad aditiḥ śrapayān iti ||
Ты — повод (вожжа) для Адити; да овладеет Адити твоей полостью. Сотворив великую глиняную укху — лоно для Агни, — Адити передала её своим сыновьям, (Агни) — Варщику (Шрапаяну): так говорится.
अदित्यै । रास्ना । असि । अदितिः । ते । बिलम् । गृभ्णातु । कृत्वाय । सा । महीम् । उखाम् । मृन्मयीम् । योनिम् । अग्नये । पुत्रेभ्यः । प्र-अयच्छत् । अदितिः । श्रपयान् । इति