धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान्धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः । दे॒वाना॑मसि॒ वह्नि॑तम॒ᳪ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम्
dhū́r asi | dhūrva | dhū́rvantaṃ dhūrva | taṃ yó ’smā́n dhū́rvati taṃ dhū́rva | yaṃ vayáṃ dhūrvā́maḥ | devā́nām asi váhnitamaṃ sasnitamaṃ papritamaṃ júṣṭatamaṃ devahū́tatamam ||
Ты — дым; отгони, отгони! Отгони нападающего; отгони того, кто нападает на нас; отгони того, на кого мы нападаем. Ты — у богов наилучший носитель, наичистейший, наиполнейший, наиприятнейший, наивозглашаемый, наипризваннейший богами.
धूः असि । धूर्व । धूर्वन्तम् धूर्व । तम् यः । अस्मान् धूर्वति । तम् धूर्व । यम् वयम् धूर्वामः । देवानाम् असि । वह्नितमम् । सस्नितमम् । पप्रितमम् । जुष्टतमम् । देवहूततमम् ।