Sukta 1.181
कदु प्रेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् । अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥
कदु॒ प्रेष्टा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु॑न्निनी॒थो अ॒पाम् । अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानाम् ॥
kádu préṣṭāv iṣā́ṃ rayīṇā́m adhvaryántā yád unnīnīthó apā́m | ayáṃ vāṃ yajñó akṛta práśástiṃ vásudhitī avitārā janā́nām ||
Когда же вы двое, наиприятнейшие для наших порывов и полнот, поднимете нас, как жертвователи поднимают воды? Это наше жертвоприношение соткало вам хвалу — о носители богатств, о защитники народов.
कत् । ऊँ॒ इति॑ । प्रेष्ठौ॑ । इ॒षाम् । र॒यी॒णाम् । अ॒ध्व॒र्यन्ता॑ । यत् । उ॒त्ऽनि॒नी॒थः । अ॒पाम् । अ॒यम् । वा॒म् । य॒ज्ञः । अ॒कृ॒त॒ । प्रऽश॑स्तिम् । वसु॑धिती॒ इति॑ वसु॑ऽधिती । अवि॑तारा । ज॒ना॒ना॒म् ॥कत् । ऊँ इति । प्रेष्ठौ । इषाम् । रयीणाम् । अध्वर्यन्ता । यत् । उत्निनीथः । अपाम् । अयम् । वाम् । यज्ञः । अकृत । प्रशस्तिम् । वसुधिती इति वसुधिती । अवितारा । जनानाम् ॥kat | oṃ iti | preṣṭhau | iṣām | rayīṇām | adhvaryantā | yat | ut-ninīthaḥ | apām | ayam | vām | yajñaḥ | akṛta | pra-śaśtim | vasudhitī itivasu-dhitī | avitārā | janānām