लोम॑भ्य॒ः स्वाहा॒ लोम॑भ्य॒ः स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्य॒ः स्वाहा॒ मेदो॑भ्य॒ः स्वाहा॑ । मा॒ᳪसेभ्य॒ः स्वाहा॑ मा॒ᳪसेभ्य॒ः स्वाहा॒ स्नाव॑भ्य॒ः स्वाहा॒ स्नाव॑भ्य॒ः स्वाहा॒ ऽस्थभ्य॒ः स्वाहा॒ स्थभ्य॒ः स्वाहा॑ म॒ज्जभ्य॒ः स्वाहा॑ म॒ज्जभ्य॒ः स्वाहा॑ । रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑
lómabhyáḥ svāhā́ lómabhyáḥ svāhā́ tvacé svāhā́ tvacé svāhā́ lóhitāya svāhā́ lóhitāya svāhā́ médobhyáḥ svāhā́ médobhyáḥ svāhā́ | mā́ṃsebhyáḥ svāhā́ mā́ṃsebhyáḥ svāhā́ snā́vabhyáḥ svāhā́ snā́vabhyáḥ svāhā́ ’sthabhyáḥ svāhā́ sthabhyáḥ svāhā́ majjábhyáḥ svāhā́ majjábhyáḥ svāhā́ | rétase svāhā́ pāyáve svāhā́
Aos pelos: svāhā; aos pelos: svāhā. À pele: svāhā; à pele: svāhā. Ao sangue: svāhā; ao sangue: svāhā. À gordura: svāhā; à gordura: svāhā. À carne: svāhā; à carne: svāhā. Aos tendões: svāhā; aos tendões: svāhā. Aos ossos: svāhā; aos ossos: svāhā. À medula: svāhā; à medula: svāhā. Ao sêmen: svāhā; ao ânus: svāhā.
लोम॑भ्यः । स्वाहा । लोम॑भ्यः । स्वाहा । त्व॒चे । स्वाहा । त्व॒चे । स्वाहा । लोहि॑ताय । स्वाहा । लोहि॑ताय । स्वाहा । मेदो॑भ्यः । स्वाहा । मेदो॑भ्यः । स्वाहा । मा॒ᳪसेभ्यः । स्वाहा । मा॒ᳪसेभ्यः । स्वाहा । स्नाव॑भ्यः । स्वाहा । स्नाव॑भ्यः । स्वाहा । अस्थभ्यः । स्वाहा । स्थभ्यः । स्वाहा । म॒ज्जभ्यः । स्वाहा । म॒ज्जभ्यः । स्वाहा । रेत॑से । स्वाहा । पा॒यवे । स्वाहा ।