नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्वी॑श॒मर्व॑तः । यच्च॑ पपौ॒ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु
ni̱krámaṇaṃ ni̱ṣádaṇaṃ vi̱vártaṇaṃ yác ca paḍvī́śam árvataḥ | yác ca papáu yác ca ghā̱síṃ jaghā́sa sárvā tā́ te ápi devéṣv astu
O teu avançar, o teu deitar, o teu voltar-se em torno, e tudo quanto é rasto e pegada do corcel; e o que ele bebeu, e o pasto que comeu — que tudo isso, teu, seja aceito entre os deuses.
नि-क्रमणम् । नि-सदनम् । वि-वर्तनम् । यत्-च । पड्वीशम् । अर्वतः । यत्-च । पपौ । यत्-च । घासिम् । जघास । सर्वाः । ताः । ते । अपि । देवेषु । अस्तु