Sukta 5.50
एष ते देव नेता रथस्पतिः शं रयिः । शं राये शं स्वस्तय इषःस्तुतो मनामहे देवस्तुतो मनामहे ॥
ए॒ष ते॑ देव नेता॒ रथ॒स्पति॒: शं र॒यिः । शं रा॒ये शं स्व॒स्तय॑ इष॒:स्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥
eṣá te deva netā ráthaspátiḥ śáṁ rayíḥ | śáṁ rāyé śáṁ svastáya iṣáḥ-stutó manāmahe deva-stutó manāmahe ||
Este é o teu guia divino, ó Deus, senhor do carro: a paz (śam) como riqueza. Paz para a nossa plenitude, paz para o nosso bem‑estar; louvada pelas forças do impulso (iṣáḥ), louvada pelos deuses—nós a guardamos no pensamento e no assentimento, louvada pelos deuses—nós a guardamos no pensamento.
ए॒षः । ते॒ । दे॒व॒ । ने॒त॒रिति॑ । रथः॒पतिः॑ । शम् । र॒यिः । शम् । रा॒ये । शम् । स्व॒स्तये॑ । इ॒षः॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ । दे॒व॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ ॥एषः । ते । देव । नेतरिति । रथःपतिः । शम् । रयिः । शम् । राये । शम् । स्वस्तये । इषःस्तुतः । मनामहे । देवस्तुतः । मनामहे ॥eṣaḥ | te | deva | netariti | rathaḥpatiḥ | śam | rayiḥ | śam | rāye | śam | svastaye | iṣaḥ-stutaḥ | manāmahe | deva-stutaḥ | manāmahe