Sukta 10.92
रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम् । येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥
रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् । येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथ॑: सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥
rebhad atra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣur adhvaram | yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati ||
Aqui o Aṅgiras primordial, primeiro por nascimento, soltou o brado inspirado; as pedras de prensar, erguidas, fitavam o sacrifício. Por esses meios o Vasto tornou-se clarividente; o caminho firmou-se bem, como o machado do discernimento interior que abre passagem no mato cerrado.
रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः॑ । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् । येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥रेभत् । अत्र । जनुषा । पूर्वः । अङ्गिराः । ग्रावाणः । ऊर्ध्वाः । अभि । चक्षुः । अध्वरम् । येभिः । विहायाः । अभवत् । विचक्षणः । पाथः । सुमेकम् । स्वधितिः । वनन्वति ॥rebhat | atra | januṣā | pūrvaḥ | aṅgirāḥ | grāvāṇaḥ | ūrdhvāḥ | abhi | cakṣuḥ | adhvaram | yebhiḥ | vi-hāyāḥ | abhavat | vi-cakṣaṇaḥ | pāthaḥ | su-mekam | sva-dhitiḥ | vanan-vati