Sukta 10.22
पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् । उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥
पिबा॑पि॒बेदि॑न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसु॒: सन् । उ॒त त्रा॑यस्व गृण॒तो म॒घोनो॑ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ॥
píbāpibédindra śūra sómaṃ mā́ riṣaṇyo vasavāna vásuḥ sán | utá trāyasva gṛṇató maghóno maháś ca rāyó revátas kṛdhī naḥ ||
Bebe, bebe mesmo, ó Indra, herói, o Soma; não nos causes dano — tu, senhor das riquezas, sendo tu mesmo riqueza. E protege o cantor que te invoca; faz para nós uma grande e resplandecente plenitude de bens.
पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मा । रि॒ष॒ण्यः॒ । व॒स॒वा॒न॒ । वसुः॑ । सन् । उ॒त । त्रा॒य॒स्व॒ । गृ॒ण॒तः । म॒घोनः॑ । म॒हः । च॒ । रा॒यः । रे॒वतः॑ । कृ॒धि॒ । नः॒ ॥पिबपिब । इत् । इन्द्र । शूर । सोमम् । मा । रिषण्यः । वसवान । वसुः । सन् । उत । त्रायस्व । गृणतः । मघोनः । महः । च । रायः । रेवतः । कृधि । नः ॥piba-piba | it | indra | śūra | somam | mā | riṣaṇyaḥ | vasavāna | vasuḥ | san | uta | trāyasva | gṛṇataḥ | maghonaḥ | mahaḥ | ca | rāyaḥ | revataḥ | kṛdhi | naḥ