Sukta 10.132
अस्मिन्त्स्वेतच्छकपूत एनो हिते मित्रे निगतान्हन्ति वीरान् । अवोर्वा यद्धात्तनूष्ववः प्रियासु यज्ञियास्वर्वा ॥
अ॒स्मिन्त्स्वे॒३॒॑तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् । अ॒वोर्वा॒ यद्धात्त॒नूष्वव॑: प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा॑ ॥
asmín tsvétác chakapūta éno hitè mitré nígatān hanti vīrā́n | avór vā yád dhā́t tanū́ṣv ávaḥ priyā́su yajñíyāsv árvā ||
Nisto mesmo, ó Purificado, há uma falta: quando Mitra é posto de lado, isso abate por dentro as forças do herói. Ou então — que ele deposite suas proteções em nossos corpos, nos movimentos queridos, dignos do sacrifício, com rapidez.
अ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एनः॑ । हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् । अ॒वोः । वा॒ । यत् । धात् । त॒नूषु॑ । अवः॑ । प्रि॒यासु॑ य॒ज्ञिया॒स्व् अर्वा॑ ॥अस्मिन् । सु । एतत् । शकपूते । एनः । हिते । मित्रे । निगतान् । हन्ति । वीरान् । अवोः । वा । यत् । धात् । तनूषु । अवः । प्रियासु यज्ञियास्व् अर्वा ॥asmin | su | etat | śaka-pūte | enaḥ | hite | mitre | ni-gatān | hanti | vīrān | avoḥ | vā | yat | dhāt | tanūṣu | avaḥ | priyāsuyajñiyāsv arvā