Sukta 10.110
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥
स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः । अ॒स्य होतु॑: प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥
sadyó jātó vy àmimīta yajñám agnír devā́nām abhavat purogā́ḥ | asyá hótuḥ pradiśy ṛtásya vā́ci svā́hākṛtaṃ havír adantu devā́ḥ ||
Nascido de pronto, Agni mediu o sacrifício e tornou-se o que vai à frente dos deuses. Na palavra diretiva deste Hotar, na fala do Ṛta, que os deuses partilhem a oblação preparada com svāhā.
स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः । अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥सद्यः । जातः । वि । अमिमीत । यज्ञम् । अग्निः । देवानाम् । अभवत् । पुरःगाः । अस्य । होतुः । प्रदिशि । ऋतस्य । वाचि । स्वाहाकृतम् । हविः । अदन्तु । देवाः ॥sadyaḥ | jātaḥ | vi | amimīta | yajñam | agniḥ | devānām | abhavat | puraḥ-gāḥ | asya | hotuḥ | pra-diśi | ṛtasya | vāci | svāhākṛtam | haviḥ | adantu | devāḥ