Sukta 1.132
सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः । तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा । इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतयः ॥
सं यज्जना॒न्क्रतु॑भि॒: शूर॑ ई॒क्षय॒द्धने॑ हि॒ते त॑रुषन्त श्रव॒स्यव॒: प्र य॑क्षन्त श्रव॒स्यव॑: । तस्मा॒ आयु॑: प्र॒जाव॒दिद्बाधे॑ अर्च॒न्त्योज॑सा । इन्द्र॑ ओ॒क्यं॑ दिधिषन्त धी॒तयो॑ दे॒वाँ अच्छा॒ न धी॒तय॑: ॥
sáṃ yáj janā́n krátu-bhiḥ śū́ra ī́kṣayad dháne hité taruṣanta śravasyávaḥ prá yakṣanta śravasyávaḥ | tásmā ā́yuḥ prajā́-vad íd bā́dhe arcanty ójasā | índra okyáṃ didhiṣanta dhī́tayo devā́n ácchā ná dhī́tayaḥ ||
Quando o Herói, com as potências da vontade, observa e dispõe os povos para o bem do ganho conquistado na batalha, então os buscadores de glória avançam e sacrificam, avançam os buscadores de glória. A ele, no momento de repelir a resistência, cantam com força por uma vida rica em descendência. Os pensamentos inspirados preparam para Indra uma morada; os pensamentos inspirados vão aos deuses.
सम् । यत् । जना॑न् । क्रतु॑ऽभिः । शूरः॑ । ई॒क्षय॑त् । धने॑ । हि॒ते । त॒रु॒ष॒न्त॒ । श्र॒व॒स्यवः॑ । प्र । य॒क्ष॒न्त॒ । श्र॒व॒स्यवः॑ । तस्मै॑ । आयुः॑ । प्र॒जाऽव॑त् । इत् । बाधे॑ । अ॒र्च॒न्ति॒ । ओज॑सा । इन्द्र॑ । ओ॒क्य॑म् । दि॒धि॒ष॒न्त॒ । धी॒तयः॑ । दे॒वान् । अच्छ॑ । न । धी॒तयः॑ ॥सम् । यत् । जनान् । क्रतुभिः । शूरः । ईक्षयत् । धने । हिते । तरुषन्त । श्रवस्यवः । प्र । यक्षन्त । श्रवस्यवः । तस्मै । आयुः । प्रजावत् । इत् । बाधे । अर्चन्ति । ओजसा । इन्द्र । ओक्यम् । दिधिषन्त । धीतयः । देवान् । अच्छ । न । धीतयः ॥sam | yat | janān | kratu-bhiḥ | śūraḥ | īkṣayat | dhane | hite | taruṣanta | śravasyavaḥ | pra | yakṣanta | śravasyavaḥ | tasmai | āyuḥ | prajāvat | it | bādhe | arcanti | ojasā | indra | okyam | didhiṣanta | dhītayaḥ | devān | accha | na | dhītayaḥ