Sarvasara
नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु ।
न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च ॥
अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा ।
साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः ॥
नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः ।
मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव ॥
स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः ।
आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥
ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् ।
रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥
न । अहम् । भवामि । अहम् । देवः । न । इन्द्रियाणि । दश । एव । तु ।
न । बुद्धिः । न । मनः । शश्वत् । न । अहङ्कारः । तथा । एव । च ।
अ-प्राणः । हि । अ-मनाः । शुभ्रः । बुद्धि-आदीनाम् । हि । सर्वदा ।
साक्षी । अहम् । सर्वदा । नित्यः । चित्-मात्रः । अहम् । न । संशयः ।
न । अहम् । कर्ता । न । एव । भोक्ता । प्रकृतेः । साक्षि-रूपकः ।
मत्-सान्निध्यात् । प्रवर्तन्ते । देह-आद्याः । अ-जडाः । इव ।
स्थाणुः । नित्यः । सदा-आनन्दः । शुद्धः । ज्ञान-मयः । अमलः ।
आत्मा । अहम् । सर्व-भूतानाम् । विभुः । साक्षी । न । संशयः ।
ब्रह्म । एव । अहम् । सर्व-वेदान्त-वेद्यम् । न । अहम् । वेद्यम् । व्योम-वात-आदि-रूपम् ।
रूपम् । न । अहम् । नाम । न । अहम् । न । कर्म । ब्रह्म । एव । अहम् । सत्-चित्-आनन्द-रूपम् ।
nāhaṃ bhavāmy ahaṃ devo nendriyāṇi daśaiva tu |
na buddhir na manaḥ śaśvan nāhaṅkāras tathaiva ca ||
aprāṇo hy amanāḥ śubhro buddhyādīnāṃ hi sarvadā |
sākṣy ahaṃ sarvadā nityaś cinmātro ’haṃ na saṃśayaḥ ||
nāhaṃ kartā naiva bhoktā prakṛteḥ sākṣirūpakaḥ |
matsānnidhyāt pravartante dehādyā ajadā iva ||
sthāṇur nityaḥ sadānandaḥ śuddho jñānamayo ’malaḥ |
ātmāhaṃ sarvabhūtānāṃ vibhuḥ sākṣī na saṃśayaḥ ||
brahmaivāhaṃ sarvavedāntavedyaṃ nāhaṃ vedyaṃ vyomavātādirūpam |
rūpaṃ nāhaṃ nāma nāhaṃ na karma brahmaivāhaṃ saccidānandarūpam ||
ਮੈਂ ਬਣਨ ਵਾਲਾ ਜੀਵ ਨਹੀਂ; ਮੈਂ ਦੇਵਤਾ ਨਹੀਂ; ਦਸ ਇੰਦ੍ਰੀਆਂ ਵੀ ਮੈਂ ਨਹੀਂ। ਮੈਂ ਬੁੱਧੀ ਨਹੀਂ, ਮਨ ਨਹੀਂ; ਅਹੰਕਾਰ ਵੀ ਨਹੀਂ। ਮੈਂ ਪ੍ਰਾਣ-ਰਹਿਤ, ਮਨ-ਰਹਿਤ, ਸ਼ੁੱਧ—ਬੁੱਧੀ ਆਦਿਕ ਦੇ ਸਭ ਵਿਕਾਰਾਂ ਤੋਂ ਸਦਾ ਪਰੇ ਹਾਂ। ਮੈਂ ਸਦਾ ਸਾਕਸ਼ੀ, ਨਿਤ੍ਯ, ਚੇਤਨ-ਮਾਤ੍ਰ—ਨਿਸ਼ਚੇ ਹੀ। ਮੈਂ ਕਰਤਾ ਨਹੀਂ, ਭੋਗਤਾ ਨਹੀਂ; ਮੈਂ ਪ੍ਰਕ੍ਰਿਤੀ ਦਾ ਸਾਕਸ਼ੀ-ਸਵਰੂਪ ਹਾਂ। ਮੇਰੇ ਸਾਨਿਧ੍ਯ ਨਾਲ ਹੀ ਦੇਹ ਆਦਿ ਜੜ ਹੋ ਕੇ ਵੀ ਅਜੜ ਵਾਂਗ ਚਲਦੇ ਹਨ। ਮੈਂ ਅਚਲ, ਨਿਤ੍ਯ, ਸਦਾਨੰਦ, ਸ਼ੁੱਧ, ਗਿਆਨਮਯ, ਨਿਰਮਲ ਹਾਂ। ਮੈਂ ਸਭ ਭੂਤਾਂ ਦਾ ਆਤਮਾ, ਸਰਬਵਿਆਪੀ, ਸਾਕਸ਼ੀ—ਨਿਸ਼ਚੇ ਹੀ। ਮੈਂ ਹੀ ਬ੍ਰਹਮ ਹਾਂ, ਸਾਰੇ ਵੇਦਾਂਤਾਂ ਨਾਲ ਵੇਦ੍ਯ; ਆਕਾਸ਼, ਵਾਯੂ ਆਦਿ ਵਰਗਾ ਵੇਦ੍ਯ ਪਦਾਰਥ ਮੈਂ ਨਹੀਂ। ਨਾ ਰੂਪ, ਨਾ ਨਾਮ, ਨਾ ਕਰਮ; ਮੈਂ ਸੱਚਿਦਾਨੰਦ-ਸਵਰੂਪ ਬ੍ਰਹਮ ਹੀ ਹਾਂ।
I am not a becoming entity; I am not a god; nor am I the ten senses. I am not the intellect, not the mind; nor indeed the ego-sense. I am without vital-breath and without mind, pure, ever beyond (the modifications of) intellect and the rest. I am ever the witness, eternal, consciousness alone—without doubt. I am not the agent, nor the enjoyer; I am of the nature of the witness of Prakṛti. By my mere presence the body and the rest function, as though non-inert. I am immovable, eternal, ever-blissful, pure, consisting of knowledge, stainless. I am the Self of all beings, all-pervading, the witness—without doubt. I am Brahman alone, knowable through all Vedānta; I am not an object of knowledge such as space, wind, and the like. I am not form, not name, not action; I am Brahman alone, whose nature is Existence–Consciousness–Bliss.