Sukta 10.163
मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः । यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥
मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्य॑: । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥
méhanād vanaṃkáraṇāl lómabhyas te nakhébhyaḥ | yakṣmáṃ sárvasmād ātmánas tám idáṃ ví vṛhāmi te ||
ਤੇਰੇ ਮੇਹਨ ਤੋਂ, ਸੰਤਾਨ-ਉਤਪੱਤੀ ਦੇ ਕਰਣ ਤੋਂ, ਤੇਰੇ ਰੋਮਾਂ ਤੋਂ ਅਤੇ ਤੇਰੇ ਨਖਾਂ ਤੋਂ—ਯਕ੍ਸ਼ਮ ਨੂੰ ਮੈਂ ਕੱਢ ਕੇ ਸੁੱਟਦਾ ਹਾਂ। ਤੇਰੇ ਸਾਰੇ ਆਤਮਨ ਤੋਂ—ਇਹੀ ਇਸ ਨੂੰ—ਮੈਂ ਤੇਰੇ ਵਿਚੋਂ ਜੜ੍ਹੋਂ ਸਮੇਤ ਉਖਾੜ ਦਿੰਦਾ ਹਾਂ।
मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ । यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥मेहनात् । वनम्करणात् । लोमभ्यः । ते । नखेभ्यः । यक्ष्मम् । सर्वस्मात् । आत्मनः । तम् । इदम् । वि । वृहामि । ते ॥mehanāt | vanam-karaṇāt | loma-bhyaḥ | te | nakhebhyaḥ | yakṣmam | sarvasmāt | ātmanaḥ | tam | idam | vi | vṛhāmi | te