Ganapati
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११–१४॥
एक-दन्तम् । चतुः-हस्तम् । पाश-अङ्कुश-धारिणम् ।
रदम् । च । वरदम् । हस्तैः । बिभ्राणम् । मूषक-ध्वजम् ।
रक्तम् । लम्बोदरम् । शूर्प-कर्णकम् । रक्त-वाससम् ।
रक्त-गन्ध-अनुलिप्त-अङ्गम् । रक्त-पुष्पैः । सु-पूजितम् ।
भक्त-अनुकम्पिनम् । देवम् । जगत्-कारणम् । अच्युतम् ।
आविर्भूतम् । च । सृष्टि-आदौ । प्रकृतेः । पुरुषात् । परम् ।
एवम् । ध्यायति । यः । नित्यम् । सः । योगी । योगिनाम् । वरः ।
ekadantaṃ caturhastaṃ pāśāṅkuśadhāriṇam |
radaṃ ca varadaṃ hastair bibhrāṇaṃ mūṣakadhvajam |
raktaṃ lambodaraṃ śūrpakarṇakaṃ raktavāsasam |
raktagandhānuliptāṅgaṃ raktapuṣpaiḥ supūjitam |
bhaktānukampinaṃ devaṃ jagatkāraṇam acyutam |
āvirbhūtaṃ ca sṛṣṭyādau prakṛteḥ puruṣāt param |
evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ ||11–14||
(ଗଣପତିଙ୍କୁ ଧ୍ୟାନ କର) ଏକଦନ୍ତ, ଚତୁର୍ହସ୍ତ, ପାଶ ଓ ଅଙ୍କୁଶଧାରୀ; ରଦ (ଭଙ୍ଗଦନ୍ତ) ଓ ବରଦମୁଦ୍ରା ହସ୍ତେ ବିଭ୍ରାଣ, ମୂଷକଧ୍ୱଜଧାରୀ। ରକ୍ତବର୍ଣ୍ଣ, ଲମ୍ବୋଦର, ଶୂର୍ପକର୍ଣ୍ଣ, ରକ୍ତବସ୍ତ୍ରଧାରୀ; ରକ୍ତସୁଗନ୍ଧରେ ଅନୁଲିପ୍ତ ଅଙ୍ଗ, ରକ୍ତପୁଷ୍ପରେ ସୁପୂଜିତ। ଭକ୍ତାନୁକମ୍ପୀ ଦେବ, ଜଗତ୍କାରଣ ଅଚ୍ୟୁତ; ସୃଷ୍ଟ୍ୟାଦୌ ଆବିର୍ଭୂତ, ପ୍ରକୃତି ଓ ପୁରୁଷରୁ ପର। ଯେ ନିତ୍ୟ ଏଭଳି ଧ୍ୟାନ କରେ, ସେ ଯୋଗୀ—ଯୋଗୀମାନଙ୍କ ମଧ୍ୟରେ ଶ୍ରେଷ୍ଠ।
(One should meditate on Gaṇapati as) the One-tusked, four-handed bearer of the noose and goad; holding (also) the broken tusk and the boon-giving (hand), bearing the banner of the mouse; red (in hue), pot-bellied, with winnow-like ears, clad in red; whose limbs are anointed with red fragrance, well worshipped with red flowers; the deity compassionate to devotees, the imperishable cause of the world; manifested at the beginning of creation, beyond Prakṛti and beyond Puruṣa. He who meditates thus constantly—he is a yogin, the best among yogins.