Ekakshara
धाता विधाता पवनः सुपर्णो विष्णुर्वराहो रजनी रहश्च । भूतं भविष्यत्प्रभवः क्रियाश्च । कालः क्रमस्त्वं परमाक्षरं च ॥६॥
धाता । विधाता । पवनः । सुपर्णः । विष्णुः । वराहः । रजनी । रहः । च । भूतम् । भविष्यत्-प्रभवः । क्रियाः । च । कालः । क्रमः । त्वम् । परम-अक्षरम् । च ।
dhātā vidhātā pavanaḥ suparṇo viṣṇur varāho rajanī rahaś ca | bhūtaṃ bhaviṣyatprabhavaḥ kriyāś ca | kālaḥ kramas tvaṃ paramākṣaraṃ ca ||6||
ତୁମେ ଧାତା ଓ ବିଧାତା; ପବନ; ସୁପର୍ଣ୍ଣ; ବିଷ୍ଣୁ; ବରାହ; ରଜନୀ ଓ ରହସ୍ୟ ମଧ୍ୟ ତୁମେ। ଭୂତ ଓ ଭବିଷ୍ୟତର ପ୍ରଭବ, ଏବଂ କ୍ରିୟାମାନେ ତୁମେ; କାଳ ଓ କ୍ରମ ତୁମେ—ପରମ ଅକ୍ଷର ମଧ୍ୟ ତୁମେ।
(You are) the establisher and the disposer, the wind, the fair-winged (bird), Viṣṇu, the Boar, night and secrecy; the past and the source of the future, and actions; time and sequence—you are also the supreme Imperishable (Akṣara).