Atma
असत्यत्वेन भानं तु संसारस्य निवर्तकम् । घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्षते ॥
विना प्रमाणसुष्ठुत्वं यस्मिन् सति पदार्थधीः । अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ॥५–६॥
असत्यत्वेन । भानम् । तु । संसारस्य । निवर्तकम् । घटः । अयम् । इति । विज्ञातुम् । नियमः । कः । अन्वपेक्षते ॥
विना । प्रमाण-सुष्ठुत्वम् । यस्मिन् । सति । पदार्थ-धीः । अयम् । आत्मा । नित्य-सिद्धः । प्रमाणे । सति । भासते ॥
asatyatvena bhānaṃ tu saṃsārasya nivartakam | ghaṭo’yam iti vijñātuṃ niyamaḥ ko’nvapekṣate ||
vinā pramāṇa-suṣṭhutvaṃ yasmin sati padārtha-dhīḥ | ayam ātmā nitya-siddhaḥ pramāṇe sati bhāsate ||5–6||
ସଂସାରର ଭାନ ଅସତ୍ୟ ଭାବେ ଦେଖାଯିବା ନିଶ୍ଚୟ ସଂସାର-ନିବୃତ୍ତିକାରକ। “ଏହା ଘଟ” ବୋଲି ଜାଣିବାକୁ କେଉଁ ନିୟମ କିମ୍ବା ପ୍ରତିବନ୍ଧ ଆଶ୍ରୟ କରିବାକୁ ପଡେ? ଯଥାଯଥ ପ୍ରମାଣର ସୁଚାଳନା ବିନା ମଧ୍ୟ ଯେତେବେଳେ ପଦାର୍ଥବୁଦ୍ଧି ହୁଏ, ସେତେବେଳେ ଏହି ଆତ୍ମା ନିତ୍ୟସିଦ୍ଧ; ପ୍ରମାଣ ଥିଲେ ସେ ପ୍ରକାଶିତ ହୋଇ ଜଣାପଡେ।
The appearance (cognition) of the world as unreal is indeed the remover of saṃsāra. To know “this is a pot,” what rule (restriction) does one depend upon? Without the proper functioning of a means of knowledge, when there is cognition of an object—this Self is eternally established; yet, when a means of knowledge is present, it becomes manifest (is known).