Akshi
पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् । जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा ॥ मदाभिमानमात्सर्यलोभमोहातिशायिताम् । बहिरप्यास्थितामीषत् त्यजत्यहिरिव त्वचम् ॥ इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया । सरहस्यमशेषेण यथावदधिगच्छति ॥
पदार्थ-प्रविभाग-ज्ञः । कार्य-अकार्य-विनिर्णयम् । जानाति । अधिगतः । च । अन्यः । गृहम् । गृहपतिः । यथा ॥ मद-अभिमान-मात्सर्य-लोभ-मोह-अतिशायिताम् । बहिः । अपि । आस्थिताम् । ईषत् । त्यजति । अहिः । इव । त्वचम् ॥ इत्थम्-भूत-मतिः । शास्त्र-गुरु-सज्जन-सेवया । स-रहस्यम् । अशेषेण । यथा-वत् । अधिगच्छति ॥
padārthapravibhāgajñaḥ kāryākāryavinirṇayam | jānāty adhigataścānyo gṛhaṃ gṛhapatiḥ yathā || madābhimānamātsaryalobhamohātiśāyitām | bahir apy āsthitām īṣat tyajaty ahir iva tvacam || itthaṃbhūtamatiḥ śāstragurusajjanasevayā | sarahasyam aśeṣeṇa yathāvad adhigacchati ||
ପଦାର୍ଥ-ପ୍ରବିଭାଗ ଜାଣିଥିବା ବ୍ୟକ୍ତି କାର୍ଯ୍ୟ-ଅକାର୍ଯ୍ୟର ନିର୍ଣ୍ଣୟ ବୁଝେ, ଯେପରି ଗୃହପତି ନିଜ ଗୃହକାର୍ଯ୍ୟକୁ ଆୟତ୍ତ କରେ। ସେ ମଦ, ଅଭିମାନ, ମାତ୍ସର୍ଯ୍ୟ, ଲୋଭ ଓ ଅତିମୋହକୁ ସର୍ପ ଯେପରି ଚର୍ମ ଛାଡ଼େ ସେପରି ଧୀରେ ଧୀରେ ତ୍ୟାଗ କରେ। ଏପରି ମତି ଥିଲେ ଶାସ୍ତ୍ର, ଗୁରୁ ଓ ସଜ୍ଜନଙ୍କ ସେବାରେ ରହସ୍ୟସହିତ ସମ୍ପୂର୍ଣ୍ଣ ଉପଦେଶକୁ ପୂର୍ଣ୍ଣ ଭାବେ ଯଥାବତ୍ ଅଧିଗମ କରେ।
One who knows the classification of categories understands the discernment of what ought and ought not to be done, like a householder who has mastered his household. He gradually abandons pride, egoism, envy, greed, and excessive delusion—like a snake (casting off) its skin. With such a disposition, through service to scripture, the teacher, and the good, he fully and properly comprehends the teaching together with its inner purport.