ए॒ष ते॑ निरृते भा॒गस्तं जु॑षस्व॒ स्वाहा॒ऽग्निने॑त्रेभ्यो दे॒वेभ्य॑ः पुर॒ः सद्भ्य॒ः स्वाहा॑ । य॒मने॑त्रेभ्यो दे॒वेभ्यो॑ दक्षि॒णासद्भ्य॒ः स्वाहा॑ । वि॒श्वदे॑वनेत्रेभ्यो दे॒वेभ्य॑ः पश्चा॒त्सद्भ्य॒ः स्वाहा॑ । मि॒त्रावरु॑णनेत्रेभ्यो वा म॒रुन्ने॑त्रेभ्यो वा दे॒वेभ्य॑ उत्तरा॒सद्भ्य॒ः स्वाहा॑ । सोम॑नेत्रेभ्यो दे॒वेभ्य॑ उपरि॒सद्भ्यो॒ दुव॑स्वद्भ्य॒ः स्वाहा॑
eṣá te nirṛ́te bhāgás táṃ juṣasva svā́hā | agní-netrebhyo devébhyaḥ puráḥ-sádbhyaḥ svā́hā | yamá-netrebhyo devébhyo dakṣiṇā-sádbhyaḥ svā́hā | viśvádeva-netrebhyo devébhyaḥ paścā́t-sádbhyaḥ svā́hā | mitrā́varuṇa-netrebhyo vā marún-netrebhyo vā devébhya uttárā-sádbhyaḥ svā́hā | sóma-netrebhyo devébhya uparí-sadbhyo dúvasvadbhyaḥ svā́hā
ହେ ନିରୃତି, ଏହା ତୋର ଭାଗ; ଏହାକୁ ପ୍ରସନ୍ନତାରେ ଗ୍ରହଣ କର—ସ୍ୱାହା। ଅଗ୍ନିନେତ୍ର ଦେବମାନେ, ଯେ ପୁରଃସଦ୍ (ଆଗରେ ବସିଥିବା) —ତାଙ୍କୁ ସ୍ୱାହା। ଯମନେତ୍ର ଦେବମାନେ, ଯେ ଦକ୍ଷିଣାସଦ୍ (ଡାହାଣ ପାର୍ଶ୍ୱରେ ବସିଥିବା) —ତାଙ୍କୁ ସ୍ୱାହା। ବିଶ୍ୱଦେବନେତ୍ର ଦେବମାନେ, ଯେ ପଶ୍ଚାତ୍ସଦ୍ (ପଛରେ ବସିଥିବା) —ତାଙ୍କୁ ସ୍ୱାହା। ମିତ୍ରାବରୁଣନେତ୍ର କିମ୍ବା ମରୁନ୍ନେତ୍ର ଦେବମାନେ, ଯେ ଉତ୍ତରାସଦ୍ (ଉତ୍ତର ପାର୍ଶ୍ୱରେ ବସିଥିବା) —ତାଙ୍କୁ ସ୍ୱାହା। ସୋମନେତ୍ର ଦେବମାନେ, ଯେ ଉପରିସଦ୍ (ଉପରେ ବସିଥିବା) ଏବଂ ଦୁବସ୍ୱଦ୍ (ସ୍ତୁତି/ହବିରେ ପ୍ରସନ୍ନ ହେବା) —ତାଙ୍କୁ ସ୍ୱାହା।
एषः । ते । निरृते । भागः । तम् । जुषस्व । स्वाहा । अग्नि-नेत्रेभ्यः । देवेभ्यः । पुरः-सद्भ्यः । स्वाहा । यम-नेत्रेभ्यः । देवेभ्यः । दक्षिणा-सद्भ्यः । स्वाहा । विश्वदेव-नेत्रेभ्यः । देवेभ्यः । पश्चात्-सद्भ्यः । स्वाहा । मित्रा-वरुण-नेत्रेभ्यः । वा । मरुत्-नेत्रेभ्यः । वा । देवेभ्यः । उत्तरा-सद्भ्यः । स्वाहा । सोम-नेत्रेभ्यः । देवेभ्यः । उपरि-सद्भ्यः । दुवस्वद्भ्यः । स्वाहा ।