वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वे दि॑वे वा॒मम॒स्मभ्य॑ᳪ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाज॑: स्याम
vāmám adyá savitar vāmám u śváḥ divé divé vāmám asmábhyaṃ sāvīḥ | vā́masya hí kṣáyasya deva bhū́rer ayā́ dhiyā́ vāmabhā́jaḥ syāma
ହେ ସବିତୃ, ଆଜି ଆମକୁ କଲ୍ୟାଣ ଦିଅ; କାଲି ମଧ୍ୟ ଆମକୁ କଲ୍ୟାଣ ଦିଅ; ଦିନେ ଦିନେ ଆମକୁ କଲ୍ୟାଣ ପ୍ରଦାନ କର। ହେ ଦେବ, ବିଶାଳ ନିବାସ ଓ ସମୃଦ୍ଧିର ଧନୀ, ଏହି ଆମର ଧୀ (ପବିତ୍ର ବୁଦ୍ଧି/ଚିନ୍ତା) ଦ୍ୱାରା ଆମେ କଲ୍ୟାଣର ଭାଗୀ ହେବୁ।
वामम् । अद्य । सवितः । वामम् । उ । श्वः । दिवे । दिवे । वामम् । अस्मभ्यम् । सावीः । वामस्य । हि । क्षयस्य । देव । भूरेः । अयाः । धियाः । वाम-भाजः । स्याम ।