व्रेशी॑नां त्वा॒ पत्म॒न्ना धू॑नोमि कुकू॒नना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्ना धू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्ना धू॑नोमि शु॒क्रं त्वा॑ शु॒क्र आ धू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑
vréśīnām tvā patmánnā dhūnomi kukūnanānām tvā patmánnā dhūnomi bhandanānām tvā patmánnā dhūnomi madíntamānām tvā patmánnā dhūnomi madhúntamānām tvā patmánnā dhūnomi śukráṃ tvā śukrá ā dhūnomy áhno rūpé sū́ryasya raśmíṣu
ବ୍ରେଶୀନାଂ (ପୀଡନ-ଦଣ୍ଡମାନଙ୍କ) ତ୍ୱା ପତ୍ମନ୍ନା (ଆଧାର ଉପରେ) ଧୂନୋମି—ମୁଁ ହଲାଉଛି; କୁକୂନନାନାଂ (ଗୁଛ୍ଛ/ତୁମ୍ବ ଥିବା) ତ୍ୱା ପତ୍ମନ୍ନା ଧୂନୋମି; ଭନ୍ଦନାନାଂ (ବାନ୍ଧିବା) ତ୍ୱା ପତ୍ମନ୍ନା ଧୂନୋମି; ମଦିନ୍ତମାନାଂ (ଅତ୍ୟନ୍ତ ଉଲ୍ଲାସକର) ତ୍ୱା ପତ୍ମନ୍ନା ଧୂନୋମି; ମଧୁନ୍ତମାନାଂ (ଅତ୍ୟନ୍ତ ମଧୁର/ମଧୁମୟ) ତ୍ୱା ପତ୍ମନ୍ନା ଧୂନୋମି। ଶୁକ୍ରଂ (ପ୍ରକାଶମାନ) ତ୍ୱା—ଶୁକ୍ରଃ ଭାବେ ଧୂନୋମି, ଅହ୍ନୋ ରୂପେ, ସୂର୍ୟସ୍ୟ ରଶ୍ମିଷୁ।
व्रेशी॑नाम् । त्वा॒ । पत्म॒न् । आ । धू॑नोमि । कुकू॒नना॑नाम् । त्वा॒ । पत्म॒न् । आ । धू॑नोमि । भ॒न्दना॑नाम् । त्वा॒ । पत्म॒न् । आ । धू॑नोमि । म॒दिन्त॑मानाम् । त्वा॒ । पत्म॒न् । आ । धू॑नोमि । म॒धुन्त॑मानाम् । त्वा॒ । पत्म॒न् । आ । धू॑नोमि । शु॒क्रम् । त्वा॒ । शु॒क्रे । आ । धू॑नोमि । अह्नः॑ । रू॒पे । सूर्य॑स्य । र॒श्मिषु॑