मि॒त्रावरु॑णाभ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॑य त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒ग्निभ्यां॑ त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒वरु॑णाभ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णा॒मीन्द्रा॒विष्णु॑भ्यां त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णामि
mitrā́varuṇābhyāṃ tvā devāvyàṃ yajñásyā́yuṣe gṛhṇāmi | índrāya tvā devāvyàṃ yajñásyā́yuṣe gṛhṇāmi | indrā́gnibhyāṃ tvā devāvyàṃ yajñásyā́yuṣe gṛhṇāmi | indrā́varuṇābhyāṃ tvā devāvyàṃ yajñásyā́yuṣe gṛhṇāmi | indrā́bṛhaspátibhyāṃ tvā devāvyàṃ yajñásyā́yuṣe gṛhṇāmi | indrā́viṣṇubhyāṃ tvā devāvyàṃ yajñásyā́yuṣe gṛhṇāmi
ମିତ୍ର-ବରୁଣଙ୍କ ପାଇଁ ତୁମକୁ—ଦେବ-ଯୋଗ୍ୟ—ଯଜ୍ଞର ଆୟୁଷ ପାଇଁ ମୁଁ ଗ୍ରହଣ କରୁଛି। ଇନ୍ଦ୍ର ପାଇଁ ତୁମକୁ—ଦେବ-ଯୋଗ୍ୟ—ଯଜ୍ଞର ଆୟୁଷ ପାଇଁ ମୁଁ ଗ୍ରହଣ କରୁଛି। ଇନ୍ଦ୍ର-ଅଗ୍ନିଙ୍କ ପାଇଁ ତୁମକୁ—ଦେବ-ଯୋଗ୍ୟ—ଯଜ୍ଞର ଆୟୁଷ ପାଇଁ ମୁଁ ଗ୍ରହଣ କରୁଛି। ଇନ୍ଦ୍ର-ବରୁଣଙ୍କ ପାଇଁ ତୁମକୁ—ଦେବ-ଯୋଗ୍ୟ—ଯଜ୍ଞର ଆୟୁଷ ପାଇଁ ମୁଁ ଗ୍ରହଣ କରୁଛି। ଇନ୍ଦ୍ର-ବୃହସ୍ପତିଙ୍କ ପାଇଁ ତୁମକୁ—ଦେବ-ଯୋଗ୍ୟ—ଯଜ୍ଞର ଆୟୁଷ ପାଇଁ ମୁଁ ଗ୍ରହଣ କରୁଛି। ଇନ୍ଦ୍ର-ବିଷ୍ଣୁଙ୍କ ପାଇଁ ତୁମକୁ—ଦେବ-ଯୋଗ୍ୟ—ଯଜ୍ଞର ଆୟୁଷ ପାଇଁ ମୁଁ ଗ୍ରହଣ କରୁଛି।
मित्रा-वरुणाभ्याम् । त्वा । देवाव्यम् । यज्ञस्य । आयुषे । गृह्णामि । इन्द्राय । त्वा । देवाव्यम् । यज्ञस्य । आयुषे । गृह्णामि । इन्द्रा-अग्निभ्याम् । त्वा । देवाव्यम् । यज्ञस्य । आयुषे । गृह्णामि । इन्द्रा-वरुणाभ्याम् । त्वा । देवाव्यम् । यज्ञस्य । आयुषे । गृह्णामि । इन्द्रा-बृहस्पतिभ्याम् । त्वा । देवाव्यम् । यज्ञस्य । आयुषे । गृह्णामि । इन्द्रा-विष्णुभ्याम् । त्वा । देवाव्यम् । यज्ञस्य । आयुषे । गृह्णामि ।