स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वाँस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ । तृ॒म्पन्तु॒ होत्रा॒ मध्वो॒ याः स्वि॑ष्टा॒ याः सुप्री॑ता॒: सुहु॑ता॒ यत्स्वाहा ऽया॑ड॒ग्नीत्
sá prathamó bṛ́haspátiś cikitvā́ṃs tásmai índrāya sutám ā́ juhota svā́hā | tṛ́mpantu hótrā mádhvo yā́ḥ svíṣṭā yā́ḥ suprī́tāḥ súhutā yát svā́hā ’yā́ḍ agnī́t
ସେଇ ପ୍ରଥମ—ବୃହସ୍ପତି, ଜ୍ଞାନୀ; ତାଙ୍କୁ, ଇନ୍ଦ୍ରଙ୍କୁ, ପିଷିତ (ସୁତ) ସୋମ ଅର୍ପଣ କର—ସ୍ୱାହା! ମଧୁର ପାନର ହୋତ୍ରା-କର୍ମମାନେ ତୃପ୍ତ କରୁନ୍ତୁ—ଯାହା ସୁବିଷ୍ଟ (ଭଲଭାବେ ଅର୍ପିତ), ଯାହା ସୁପ୍ରୀତ (ସନ୍ତୋଷକର), ଯାହା ସୁହୁତ (ଭଲଭାବେ ହୋମିତ)—ସ୍ୱାହା ସହିତ ଯାହା ଅର୍ପିତ ହୁଏ ସେସବୁ। ‘ଅୟାଡ୍!’—ଏପରି ଅଗ୍ନୀଧ କହେ।
सः । प्रथमः । बृहस्पतिः । चिकित्वान् । तस्मै । इन्द्राय । सुतम् । आ । जुहोत । स्वाहा । तृम्पन्तु । होत्राः । मध्वः । याः । स्विष्टाः । याः । सुप्रीताः । सुहुताः । यत् । स्वाहा । अयाट् । अग्नीत् ।