उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्
úd vayáṃ támasas pári svàḥ páśyanta úttaram | deváṃ devatrā́ sū́ryam ágannma jyótiḥ uttamáṃ
ଆମେ ତମସ୍ (ଅନ୍ଧକାର)ର ପାରେ ଉଦ୍ଗତ ହେଲୁ; ଉତ୍ତର ସ୍ୱଃ (ଉଚ୍ଚତର ସ୍ୱର୍ଗ)କୁ ଦେଖୁଛୁ। ଦେବତ୍ରା—ଦେବଦିଗକୁ—ଆମେ ସୂର୍ୟଦେବଙ୍କ ପାଖକୁ ଗଲୁ; ଉତ୍ତମ ଜ୍ୟୋତିକୁ।
उत् । वयम् । तमसः । परि । स्वः । पश्यन्तः । उत्तरम् । देवम् । देव-त्रा । सूर्यम् । अगन्म । ज्योतिः । उत्तमम् ।