भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र नो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्त॑: स्याम
bhága práṇetar bhága satyárādho bháge māḿ dhíyam úd avā́ dádann aḥ | bhága prá no janaya góbhir áśvair bhága prá nṛ́bhir nṛvánt aḥ syāma
ହେ ଭଗ, ନେତା; ହେ ଭଗ, ସତ୍ୟ ଦାନଶୀଳ—ଆମକୁ ଦାନ ଦେଇ ଏହି ଆମ ଧି (ପ୍ରାର୍ଥନା)କୁ ଉନ୍ନତ କର। ହେ ଭଗ, ଗୋ-ଅଶ୍ୱ ସହିତ ଆମ ପାଇଁ ବୃଦ୍ଧି ଜନ୍ମାଇଦେ; ହେ ଭଗ, ଆମେ ନରସମ୍ପଦରେ ସମୃଦ୍ଧ, ଅନୁଚର-ସହିତ ହେବାକୁ ପାରୁ।
भग । प्रणे॒त॒र् । भग । सत्य॑राधः । भगे । इमाम् । धियम् । उदव । ददत् । नः । भग । प्र । नः । जनय । गोभिः । अश्वैः । भग । प्र । नृभिः । नृवन्तः । स्याम ।