य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः
yajñéna yajñám ayajanta devā́s tā́ni dhármāṇi prathamā́ny āsan | te há nā́kaṃ mahimā́naḥ sacanta yátra pū́rve sā́dhyāḥ sánti devā́ḥ ||
ଯଜ୍ଞ ଦ୍ୱାରା ଦେବମାନେ ଯଜ୍ଞକୁ ଯଜିଲେ; ସେଗୁଡ଼ିକ ହିଁ ପ୍ରଥମ ଧର୍ମ (ବିଧି) ଥିଲା। ସେ ମହିମାବାନମାନେ ନାକ (ସ୍ୱର୍ଗ)କୁ ପ୍ରାପ୍ତ ହେଲେ, ଯେଉଁଠାରେ ପୂର୍ବତନ ସାଧ୍ୟ ଦେବମାନେ ବସନ୍ତି।
यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् । ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ।