न॒दीभ्य॑: पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो॒ नैषादं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्यं॑ प्र॒युग्भ्य॒ उन्म॑त्तᳪ सर्पदेवज॒नेभ्योऽप्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ अकि॑तवं पिशा॒चेभ्यो॑ बिदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम्
nadī́bhyaḥ pauñjiṣṭhám ṛkṣīkā́bhyo naiṣādáṃ puruṣa-vyā́ghrāya durmádaṃ gandharvāpsaróbhyo vrā́tyaṃ prayúgbhya únmattaṃ sarpa-deva-janébhyo’pratipadá-mayebhyaḥ kitavám īryátāyā akitavám piśācébhyo bidalakārī́ṃ yātudhā́nebhyaḥ kaṇṭakīkārī́m
ନଦୀଭ୍ୟଃ ପୌଞ୍ଜିଷ୍ଠକୁ; ଋକ୍ଷୀକାଭ୍ୟଃ (ଭାଲୁମାନଙ୍କ ପାଇଁ) ନୈଷାଦକୁ; ପୁରୁଷବ୍ୟାଘ୍ରାର୍ଥେ ଦୁର୍ମଦକୁ (ଉନ୍ମତ୍ତକୁ); ଗନ୍ଧର୍ବାପ୍ସରୋଭ୍ୟଃ ବ୍ରାତ୍ୟକୁ; ପ୍ରୟୁଗ୍ଭ୍ୟଃ (ଦଳ/ଯୋଡ଼ାମାନଙ୍କ ପାଇଁ) ଉନ୍ମତ୍ତକୁ; ସର୍ପଦେବଜନେଭ୍ୟଃ ଅପ୍ରତିପଦକୁ (ଆଧାର/ପଦ ନଥିବାକୁ); ଈର୍ୟତାୟୈ (ଭ୍ରମଣାର୍ଥେ) କିତବକୁ (ଜୁଆରିକୁ) ଓ ଅକିତବକୁ (ଅଜୁଆରିକୁ); ପିଶାଚେଭ୍ୟଃ ବିଦଲକାରୀକୁ; ଯାତୁଧାନେଭ୍ୟଃ କଣ୍ଟକୀକାରୀକୁ।
न॒दीभ्यः॑ । पौ॒ञ्जि॒ष्ठम् । ऋ॒क्षीका॑भ्यः । नै॒षादम् । पु॒रु॒ष॒-व्याघ्राय॑ । दु॒र्मदम् । ग॒न्ध॒र्व॒-अप्स॒रोभ्यः॑ । व्रात्य॑म् । प्र॒युग्भ्यः॑ । उन्म॑त्तम् । स॒र्प॒-दे॒व॒-जन॑ेभ्यः । अ॒प्र॒ति॒प॒द॒मये॑भ्यः । कि॒त॒वम् । ई॒र्यता॑याः । अकि॑तवम् । पि॒शा॒चेभ्यः॑ । बि॒द॒ल॒का॒रीम् । या॒तु॒धाने॑भ्यः । क॒ण्ट॒की॒का॒रीम् ।