अथै॒तान॒ष्टौ विरू॑पा॒ना ल॑भ॒तेऽति॑दीर्घं॒ चाति॑ह्रस्वं॒ चाति॑स्थूलं॒ चाति॑कृशं॒ चाति॑शुक्लं॒ चाति॑कृष्णं॒ चाति॑कुल्वं॒ चाति॑लोमशं च । अशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः । मा॒ग॒धः पुँ॑श्च॒ली कि॑त॒वः क्ली॒बोऽशू॑द्रा॒ अब्रा॑ह्मणा॒स्ते प्रा॑जाप॒त्याः
atháitā́n aṣṭáu virū́pānā́ṃ labhaté’tidī́rghaṃ cā́tihrasváṃ cā́tisthū́laṃ cā́tikṛśáṃ cā́tiśukláṃ cā́tikṛṣṇáṃ cā́tikulváṃ cā́tilómaśaṃ ca | aśū́drā abrā́hmaṇās té prājāpatyā́ḥ | māgadháḥ puṃścalī́ kitaváḥ klī́bo’śū́drā abrā́hmaṇās té prājāpatyā́ḥ
ଅଥ ଏବେ ସେ ଏହି ଆଠ ଜଣ ବିରୂପ (ବିକୃତ ଆକୃତିବତ) ଲୋକଙ୍କୁ ଗ୍ରହଣ କରେ: ଅତିଦୀର୍ଘ ଓ ଅତିହ୍ରସ୍ୱ, ଅତିସ୍ଥୂଳ ଓ ଅତିକୃଶ, ଅତିଶୁକ୍ଲ ଓ ଅତିକୃଷ୍ଣ, ଅତିକୁଲ୍ୱ (ଅତିଖଲ୍ୱ/ଅତିଟାକୁଳା) ଓ ଅତିଲୋମଶ। ସେମାନେ ନ ଶୂଦ୍ର, ନ ବ୍ରାହ୍ମଣ; ସେମାନେ ପ୍ରାଜାପତ୍ୟ (ପ୍ରଜାପତିଙ୍କର) ଅଟନ୍ତି। ମାଗଧ, ପୁଂଶ୍ଚଲୀ, କିତବ (ଜୁଆରି), କ୍ଲୀବ—ନ ଶୂଦ୍ର, ନ ବ୍ରାହ୍ମଣ; ସେମାନେ ପ୍ରାଜାପତ୍ୟ ଅଟନ୍ତି।
अथ । एतान् । अष्टौ । विरूपान् । लभते । अति-दीर्घम् । च । अति-ह्रस्वम् । च । अति-स्थूलम् । च । अति-कृशम् । च । अति-शुक्लम् । च । अति-कृष्णम् । च । अति-कुल्वम् । च । अति-लोमशम् । च । अशूद्राः । अब्राह्मणाः । ते । प्राजापत्याः । मागधः । पुंश्चली । कितवः । क्लीबः । अशूद्राः । अब्राह्मणाः । ते । प्राजापत्याः