होता॑ यक्षदी॒डेन्य॑मीडि॒तं वृ॑त्र॒हन्त॑म॒मिडा॑भि॒रीड्यँ॒ सह॒: सोम॒मिन्द्रँ॑ वयो॒धस॑म् । अ॒नु॒ष्टुभं॒ छन्द॑ इन्द्रि॒यं पञ्चा॑विं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣed én̄yam īḍitáṃ vṛtrahántam amíḍābhir īḍyáṃ sáhaḥ sómam índraṃ vayodhásam | anuṣṭúbhaṃ chánda indriyáṃ pañcāvíṃ gā́ṃ váyo dádhad vétv ā́jyasya hótar yája
ହୋତା ଈଡେନ୍ୟ—ଈଡିତ—ବୃତ୍ରହନ୍ତ, ନିର୍ଦୋଷ ସ୍ତୁତିମାନଙ୍କ ଦ୍ୱାରା ସ୍ତବନୀୟ, ସହସ୍ୱାନ ସୋମ—ଇନ୍ଦ୍ର, ପ୍ରାଣବଳଦାତା—ଙ୍କୁ ଯଜନ କରୁ। ଅନୁଷ୍ଟୁଭ୍ ଛନ୍ଦ; ଏଠାରେ ଇନ୍ଦ୍ରଙ୍କ ଇନ୍ଦ୍ରିୟ (ପରାକ୍ରମ) ଅଛି। ପଞ୍ଚାବିଂ ଗାଈ ଓ ବଳ ଦାନ କରି ସେ ଆଜ୍ୟ ପାଖକୁ ଆସୁନ୍ତୁ; ହୋତା, ଯଜ।
होता । यक्ष । ईडेन्यम् । ईडितम् । वृत्रहन्तम् । अमिडाभिः । ईड्यम् । सहः । सोमम् । इन्द्रम् । वयोधसम् । अनुष्टुभम् । छन्दः । इन्द्रियम् । पञ्चाविम् । गाम् । वयः । दधत् । वेतु । आज्यस्य । होतः । यज