अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्याः कृ॒ष्णग्री॑व आग्ने॒यो र॒राटे॑ पु॒रस्ता॑त्सारस्व॒ती मे॒ष्यधस्ता॒द्धन्वो॑राश्वि॒नाव॒धोरा॑मौ बा॒ह्वोः सौ॑मापौ॒ष्णः श्या॒मो नाभ्या॑ᳪ सौर्यया॒मौ श्वे॒तश्च॑ कृ॒ष्णश्च॑ पा॒र्श्वयो॑स्त्वा॒ष्ट्रौ लो॑म॒शस॑क्थौ स॒क्थ्योर्वा॑य॒व्य॒: श्वे॒तः पुच्छ॒ इन्द्रा॑य स्वप॒स्या॒य वे॒हद्वै॑ष्ण॒वो वा॑म॒नः
áśvas tū́paro gómṛgas te prājāpatyā́ḥ | kṛ́ṣṇagrīva āgneyó rarā́ṭe purástāt sārasvatī́ meṣy ádhastād dhánvor āśvinā́v ádhorāmau bāhvóḥ | saumāpauṣṇáḥ śyāmó nā́bhyām | sauryayāmáu śvetáś ca kṛ́ṣṇaś ca pārśváyos tvā́ṣṭrau lomaśasákthau sákthyór vāyavyàḥ śvetáḥ púccha índrāya svapasyā́ya véhad vaiṣṇavó vā́manaḥ
କୁବ୍ଜପୃଷ୍ଠ ଅଶ୍ୱ, ଗୋ-ମୃଗ (ଗାଈ-ହରିଣ) ସଦୃଶ ବର୍ଣ୍ଣବାନ—ତୋର ଅଂଶଗୁଡ଼ିକ ପ୍ରଜାପତିଙ୍କର। କୃଷ୍ଣଗ୍ରୀବ ଅଗ୍ନିଙ୍କର; ଲଲାଟରେ, ପୁରସ୍ତାତ୍ (ଆଗଭାଗରେ)। ଧନ୍ୱୋଃ (ଜବଡ଼ା) ତଳେ ଥିବା ମେଷୀ ସରସ୍ୱତୀଙ୍କର। ବାହ୍ୱୋଃ ତଳଭାଗର ଦୁଇ ମେଷ ଅଶ୍ୱିନଦ୍ୱୟଙ୍କର। ନାଭିରେ ଶ୍ୟାମ ସୋମ-ପୂଷଣଙ୍କର। ପାର୍ଶ୍ୱୟୋଃ ସୌର୍ୟ ଦୁଇ—ଶ୍ୱେତ ଓ କୃଷ୍ଣ—ଅଛନ୍ତି। ସକ୍ଥ୍ୟୋର୍ ତ୍ୱାଷ୍ଟ୍ର ଲୋମଶ ସକ୍ଥ। ପୁଚ୍ଛ ବାୟବ୍ୟ ଶ୍ୱେତ। ଇନ୍ଦ୍ରାୟ, ସ୍ୱପସ୍ୟାୟ (ସୁକର୍ମାର୍ଥେ)—ବେହଦ; ଏବଂ ବୈଷ୍ଣବ ବାମନ।
अश्वः । तूपरः । गो-मृगः । ते । प्राजापत्याः । कृष्ण-ग्रीवः । आग्नेयः । रराटे । पुरस्तात् । सारस्वती । मेषी । अधस्तात् । हन्वोः । आश्विनौ । अधो-रामौ । बाह्वोः । सौमापौष्णः । श्यामः । नाभ्याम् । सौर्य-यामौ । श्वेतः । च । कृष्णः । च । पार्श्वयोः । त्वाष्ट्रौ । लोमश-सक्थौ । सक्थ्योः । वायव्यः । श्वेतः । पुच्छः । इन्द्राय । स्वपस्याय । वेहत् । वैष्णवः । वामनः