को अ॒स्य वे॑द॒ भुव॑नस्य॒ नाभिं॒ को द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । कः सूर्य॑स्य वेद बृह॒तो ज॒नित्रं॒ को वे॑द च॒न्द्रम॑सं यतो॒जाः
kó asya véda bhúvanasya nā́bhiṃ kó dyā́vā-pṛthivī́ antárikṣam | káḥ sū́ryasya veda bṛható janítraṃ kó véda candrámasaṃ yatójāḥ
ଏଠାରେ ଜଗତର ନାଭିକୁ କିଏ ଜାଣେ? ଦ୍ୟାବା-ପୃଥିବୀ ଏବଂ ଅନ୍ତରିକ୍ଷକୁ କିଏ ଜାଣେ? ମହାନ ସୂର୍ଯ୍ୟର ଜନ୍ମସ୍ଥାନକୁ କିଏ ଜାଣେ? ଏବଂ ଚନ୍ଦ୍ରମାକୁ—ସେ କେଉଁ ଉତ୍ସରୁ ଜନ୍ମିଛି—କିଏ ଜାଣେ?
कः । अस्य । वेद । भुवनस्य । नाभिम् । कः । द्यावा-पृथिवी । अन्तरिक्षम् । कः । सूर्यस्य । वेद । बृहतः । जनित्रम् । कः । वेद । चन्द्रमसम् । यतः-जाः