ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॒र्चन्त्य॒र्कैः । स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः
evéd índraṁ vṛ́ṣaṇaṁ vájrabāhuṁ vásiṣṭhāso abhyàrcanty arkáiḥ | sá naḥ stutó vī́ravad dhātu gómad yūyáṁ pāta svastíbhiḥ sádā naḥ ||
ଏଭଳି ବସିଷ୍ଠମାନେ ନିଜ ଅର୍କ (ସ୍ତୁତିଗୀତ) ଦ୍ୱାରା ଇନ୍ଦ୍ରଙ୍କୁ—ବୃଷଣ, ବଜ୍ରବାହୁ—ଅଭ୍ୟର୍ଚ୍ଚନ କରନ୍ତି। ସ୍ତୁତ ହୋଇଥିବା ସେ ଆମକୁ ବୀରବତ୍ ଧନ, ଗୋମତ୍ ଧନ ଦିଅନ୍ତୁ; ଏବଂ ତୁମେ ସ୍ୱସ୍ତିଭିଃ ସଦା ଆମକୁ ରକ୍ଷା କର।
एव । इत् । इन्द्रम् । वृषणम् । वज्र-बाहुम् । वसिष्ठासः । अभि । अर्चन्ति । अर्कैः । सः । नः । स्तुतः । वीर-वत् । धातु । गो-मत् । यूयम् । पात । स्वस्ति-भिः । सदा । नः