एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि । स॒माव॑वर्ति पृथि॒वी समु॒षाः समु॒ सूर्य॑: । समु॒ विश्व॑मि॒दं जग॑त् । वै॒श्वा॒न॒रज्यो॑तिर्भूयासं वि॒भून् कामा॒न् व्य॒श्नवै॒ भूः स्वाहा॑
édho ’sy edhiṣī́mahi samíd asi téjo ’si téjo máyi dhehi | sámāvavarti pṛthivī́ sám uṣā́ḥ sám sū́ryaḥ | sám víśvam idáṃ jágat | vaiśvānará jyótir bhūyāsaṃ vibhū́n kā́mān vyàśnavái bhū́ḥ svā́hā
ତୁମେ ଇଧନ; ଆମେ ତୁମକୁ ପ୍ରଜ୍ୱଳିତ କରିବା। ତୁମେ ସମିଧ; ତୁମେ ତେଜ; ମୋ ଭିତରେ ତେଜ ସ୍ଥାପନ କର। ସମ୍ମତିରେ ପୃଥିବୀ ଗତି କରିଛି; ସମ୍ମତିରେ ଉଷାମାନେ; ସମ୍ମତିରେ ସୂର୍ଯ୍ୟ; ସମ୍ମତିରେ ଏହି ସମଗ୍ର ଜଗତ। ହେ ବୈଶ୍ୱାନର, ମୁଁ ଜ୍ୟୋତିରୂପ ହେଉ; ବିଭୂନ୍ (ପ୍ରଚୁର) କାମନା ପ୍ରାପ୍ତ କରୁ। ଭୂଃ ସ୍ୱାହା।
एधः । असि । एधिषीमहि । समित् । असि । तेजः । असि । तेजः । मयि । धेहि । सम् । आववर्ति । पृथिवी । सम् । उषाः । सम् । सूर्यः । सम् । विश्वम् । इदम् । जगत् । वैश्वानर । ज्योतिः । भूयासम् । विभून् । कामान् । वि । अश्नवै । भूः । स्वाहा