यदत्र॑ रि॒प्तᳪ र॒सिन॑: सु॒तस्य॒ यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॒ सोम॒ᳪ राजा॑नमि॒ह भ॑क्षयामि
yád átra riptáṃ rasínaḥ sutásya yád índro ápibat śácībhiḥ | aháṃ tád asya mánasā śivéna sómaṃ rājā́nam ihá bhakṣayāmi ||
ଏଠାରେ ପିଷ୍ଟ (ସୋମ)ର ରସରେ ଯାହା କିଛି ଅବଶିଷ୍ଟ ରହିଛି, ଯାହାକୁ ଇନ୍ଦ୍ର ନିଜ ଶକ୍ତିମାନେ ସହିତ ପାନ କରିଥିଲେ—ସେଇ ତାହାର ଅଂଶକୁ ମୁଁ ଶୁଭ ମନରେ, ସୋମରାଜାକୁ ଏଠାରେ ଭକ୍ଷଣ କରୁଛି।
यत् । अत्र । रिप्तम् । रसिनः । सुतस्य । यत् । इन्द्रः । अपिबत् । शचीभिः । अहम् । तत् । अस्य । मनसा । शिवेन । सोमम् । राजानम् । इह । भक्षयामि ।