नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नम॒: शीघ्र्या॑य च॒ शीभ्या॑य च॒ नम॒ ऊर्म्या॑य चावस्व॒न्या॒य च॒ नमो॑ नादे॒याय॑ च॒ द्वीप्या॑य च
náma āśavé cājirā́ya ca námaḥ śīghryā́ya ca śī́bhyāya ca náma ū́rmyāya cāvasvanyā̀ya ca námo nādeyā́ya ca dvī́pyāya ca
ଆଶବଙ୍କୁ ଓ ଅଜିରଙ୍କୁ ନମସ୍କାର; ଶୀଘ୍ର୍ୟଙ୍କୁ ଓ ଶୀଭ୍ୟଙ୍କୁ ନମସ୍କାର; ଊର୍ମ୍ୟଙ୍କୁ ଓ ଅବସ୍ୱନ୍ୟଙ୍କୁ ନମସ୍କାର; ନାଦେୟଙ୍କୁ ଓ ଦ୍ୱୀପ୍ୟଙ୍କୁ ନମସ୍କାର।
नमः । आशवे । च । अजिराय । च । नमः । शीघ्र्याय । च । शीभ्याय । च । नमः । ऊर्म्याय । च । अवस्वन्याय । च । नमः । नादेयाय । च । द्वीप्याय । च