अ॒ग्नेर्भा॒गो॒ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्म॑ स्पृ॒तं त्रि॒वृत्स्तोम॒ इन्द्र॑स्य भा॒गो॒ऽसि॒ विष्णो॒राधि॑पत्यं क्ष॒त्रᳪ स्पृ॒तं प॑ञ्चद॒शः स्तोमो॑ नृ॒चक्ष॑सां भा॒गो॒ऽसि धा॒तुराधि॑पत्यं ज॒नित्र॑ᳪ स्पृ॒तᳪ स॑प्तद॒श स्तोमो मि॒त्रस्य॑ भा॒गो॒ऽसि॒ वरु॑ण॒स्याधि॑पत्यं दि॒वो वृष्टि॒र्वात॑ स्पृ॒त ए॑कवि॒ᳪश स्तोम॑:
agnér bhāgó ’si dīkṣā́yā ádhipatyaṃ bráhma spṛtáṃ trivṛ́t-stóma índrasya bhāgó ’si víṣṇor ádhipatyaṃ kṣatráṃ spṛtáṃ pañcadaśáḥ stómo nṛcákṣasāṃ bhāgó ’si dhātúr ádhipatyaṃ janítraṃ spṛtáṃ saptadaśá stómo mitrásya bhāgó ’si váruṇasy ádhipatyaṃ divó vṛ́ṣṭir vā́ta spṛtá ekaviṃśá stómaḥ
ତୁମେ ଅଗ୍ନିଙ୍କ ଭାଗ; ଦୀକ୍ଷାର ଆଧିପତ୍ୟ—ବ୍ରହ୍ମ—ବିଧିପୂର୍ବକ ସିଦ୍ଧ, ତ୍ରିବୃତ୍ ସ୍ତୋମ। ତୁମେ ଇନ୍ଦ୍ରଙ୍କ ଭାଗ; ବିଷ୍ଣୁଙ୍କ ଆଧିପତ୍ୟ—କ୍ଷତ୍ର—ବିଧିପୂର୍ବକ ସିଦ୍ଧ, ପଞ୍ଚଦଶ ସ୍ତୋମ। ତୁମେ ନୃଚକ୍ଷସାମ୍ (ମନୁଷ୍ୟ-ଦର୍ଶୀ ଋଷିମାନଙ୍କ) ଭାଗ; ଧାତୃଙ୍କ ଆଧିପତ୍ୟ—ଜନିତା—ବିଧିପୂର୍ବକ ସିଦ୍ଧ, ସପ୍ତଦଶ ସ୍ତୋମ। ତୁମେ ମିତ୍ରଙ୍କ ଭାଗ; ବରୁଣଙ୍କ ଆଧିପତ୍ୟ—ଦିବ୍ୟ ବୃଷ୍ଟି ଓ ବାତ—ବିଧିପୂର୍ବକ ସିଦ୍ଧ, ଏକବିଂଶ ସ୍ତୋମ।
अग्नेः । भागः । असि । दीक्षायाः । आधिपत्यम् । ब्रह्म । स्पृतम् । त्रिवृत्-स्तोमः । इन्द्रस्य । भागः । असि । विष्णोः । आधिपत्यम् । क्षत्रम् । स्पृतम् । पञ्चदशः । स्तोमः । नृचक्षसाम् । भागः । असि । धातुः । आधिपत्यम् । जनित्रम् । स्पृतम् । सप्तदशः । स्तोमः । मित्रस्य । भागः । असि । वरुणस्य । आधिपत्यम् । दिवः । वृष्टिः । वातः । स्पृतः । एकविंशः । स्तोमः ।