ये वा॒मी रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सद॑स्कृ॒तं तेभ्य॑: स॒र्पेभ्यो॒ नम॑:
yé vā́mī rócane divó yé vā sū́ryasya raśmíṣu | yéṣām apsú sadaskṛtáṃ tébhyaḥ sárpebhyo námaḥ ||
ଯେ (ସର୍ପ) ଦିବର ରୋଚନେ—ତେଜସ୍ବୀ ଲୋକରେ ଅଛନ୍ତି, କିମ୍ବା ସୂର୍ଯ୍ୟର ରଶ୍ମିମାନେ ଅଛନ୍ତି, କିମ୍ବା ଯାହାଙ୍କର ଆଶ୍ରୟ ଜଳମାନେ ନିର୍ମିତ—ସେହି ସର୍ପମାନଙ୍କୁ ନମସ୍କାର।
ये । वा । अमी । रोचने । दिवः । ये । वा । सूर्यस्य । रश्मिषु । येषाम् । अप्सु । सदः-कृतम् । तेभ्यः । सर्पेभ्यः । नमः ।