अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒तस्य॒ चक्षु॑र्वैश्वव्यच॒सं व॒र्षाश्चाक्षु॑ष्यो जग॑ती वा॒र्षी जग॑त्या॒ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं ज॒मद॑ग्नि॒रृषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑:
a̱yáṃ pa̱ścā́d-vi̱śvá-vyàcā̱ tasya̱ cákṣur vaiśvavyaca̱saṃ va̱rṣā́ś cākṣu̱ṣyo jágatī vārṣī́ jágatyā̱ ṛ́k-samam ṛ́k-samāc chu̱kráḥ śu̱krāt sa̱ptada̱śaḥ sa̱ptada̱śād vai̱rū̱paṃ ja̱madagni̱r ṛ́ṣiḥ prajāpati-gṛhītayā̱ tváyā̱ cákṣur gṛhṇāmi pra̱jā́bhyaḥ
ଏହା ପଶ୍ଚାତ୍ (ପଶ୍ଚିମ) ଭାଗ—‘ବିଶ୍ୱବ୍ୟଚା’; ତାହାର ଚକ୍ଷୁ ‘ବୈଶ୍ୱବ୍ୟଚସ’ ଅଟେ। ବର୍ଷାମାନେ ଚକ୍ଷୁର; ଜଗତୀ ‘ବାର୍ଷୀ’ (ବର୍ଷାକାଳୀନ ଛନ୍ଦ) ଅଟେ। ଜଗତୀରୁ ଋକ୍-ସାମର ସମମିଳନ; ସେହି ସମମିଳନରୁ ଶୁକ୍ର; ଶୁକ୍ରରୁ ସପ୍ତଦଶ; ସପ୍ତଦଶରୁ ବୈରୂପ। ଜମଦଗ୍ନି ଋଷି। ପ୍ରଜାପତି-ଗୃହୀତ ତୁମ ସହିତ ମୁଁ ପ୍ରଜାମାନଙ୍କ ପାଇଁ ଚକ୍ଷୁକୁ ଗ୍ରହଣ କରୁଛି।
अयम् । पश्चात् । विश्व-व्यचा । तस्य । चक्षुः । वैश्व-व्यचसम् । वर्षाः । चाक्षुष्यः । जगती । वार्षी । जगत्या । ऋक्-समम् । ऋक्-समात् । शुक्रः । शुक्रात् । सप्तदशः । सप्तदशात् । वैरूपम् । जमदग्निः । ऋषिः । प्रजापति-गृहीतया । त्वया । चक्षुः । गृह्णामि । प्रजाभ्यः ।