Sukta 9.107
पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति । अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥
पु॒ना॒नश्च॒मू ज॒नय॑न्म॒तिं क॒विः सोमो॑ दे॒वेषु॑ रण्यति । अ॒पो वसा॑न॒: परि॒ गोभि॒रुत्त॑र॒: सीद॒न्वने॑ष्वव्यत ॥
punānáś camū́ janáyan matíṃ kavíḥ sómo devéṣu raṇyati | apó vásānaḥ pári góbhir úttarāḥ sī́dan váneṣv avyata ||
ପୁନାନ (ଶୁଦ୍ଧ ହେଉଥିବା) କବି ସୋମ ଚମୂ (ସେନା/ଅନ୍ତର୍ରଚନା)କୁ ଜନାଏ ଏବଂ ମତି (ପ୍ରେରିତ ଚିନ୍ତା) ଉତ୍ପନ୍ନ କରେ; ଦେବମାନଙ୍କ ମଧ୍ୟରେ ସେ ରମେ। ଅପଃ (ଜଳ) ଧାରଣ କରି, ଗୋଭିଃ (ପ୍ରକାଶ-କିରଣର ‘ଗୋ’ମାନେ) ଦ୍ୱାରା ପରିବୃତ ହୋଇ, ସେ ଉର୍ଦ୍ଧ୍ୱକୁ ଉଠେ; ବନେଷୁ (କାଠର କୁଣ୍ଡମାନେ) ମଧ୍ୟରେ ଆସୀନ ହୋଇ, ଅବ୍ୟତ—ଛାଣାଯାଏ।
पु॒ना॒नः । च॒मू इति॑ । ज॒नय॑न् । म॒तिम् । क॒विः । सोमः॑ । दे॒वेषु॑ । र॒ण्य॒ति॒ । अ॒पः । वसा॑नः । परि॑ । गोभिः॑ । उत्ऽत॑रः । सीद॑न् । वने॑षु । अ॒व्य॒त॒ ॥पुनानः । चमू इति । जनयन् । मतिम् । कविः । सोमः । देवेषु । रण्यति । अपः । वसानः । परि । गोभिः । उत्तरः । सीदन् । वनेषु । अव्यत ॥punānaḥ | camū iti | janayan | matim | kaviḥ | somaḥ | deveṣu | raṇyati | apaḥ | vasānaḥ | pari | gobhiḥ | ut-taraḥ | sīdan | vaneṣu | avyata