Sukta 8.34
आ नः सहस्रशो भरायुतानि शतानि च । दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
आ न॑: सहस्र॒शो भ॑रा॒युता॑नि श॒तानि॑ च । दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं॑ य॒य दि॑वावसो ॥
ā́ naḥ sahasraśó bharāyútāni śatā́ni ca | divó amúṣya śā́sato dívaṃ yáya divāvaso ||
ହେ ଦିବାବସୁ! ଆମ ପାଖକୁ ହଜାରେ—ହଁ, ଦଶହଜାରେ ଓ ଶତେ ମଧ୍ୟ—ଆୟୁତ ଓ ଶତ ରୂପ ସମୃଦ୍ଧିମାନେ ଆଣିଦିଅ। ସେହି ଦିବ୍ୟ ଲୋକର ଆଜ୍ଞାଦାୟକ ଶାସନରୁ ପ୍ରକାଶମୟ ଦିବ୍ୟ ଲୋକକୁ ଗତି କର; ଆମ ଅନ୍ତର୍ଜୀବନରେ ସମୃଦ୍ଧି ଧର୍ମ ଭାବେ ସ୍ଥିର ହେଉ।
आ । नः॒ । स॒ह॒स्र॒ऽशः । भ॒र॒ । अ॒युता॑नि । श॒तानि॑ । च॒ । दि॒वः । अ॒मुष्य॑ । शास॑तः । दिव॑म् । य॒य । दि॒वा॒व॒सो॒ इति॑ दिवाऽवसो ॥आ । नः । सहस्रशः । भर । अयुतानि । शतानि । च । दिवः । अमुष्य । शासतः । दिवम् । यय । दिवावसो इति दिवावसो ॥ā | naḥ | sahasra-śaḥ | bhara | ayutāni | śatāni | ca | divaḥ | amuṣya | śāsataḥ | divam | yaya | divāvaso itidivāvaso