Sukta 6.19
महाँ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥
म॒हाँ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः । अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥
mahā́n índro nṛvadā́ carṣaṇiprā́ utá dvibárhā amínaḥ sáhobhiḥ | asmadryák vāvṛdhe vīryā̀yor úruḥ pṛthúḥ sukṛ́taḥ kartṛ́bhir bhūt ||
ମହାନ ଇନ୍ଦ୍ର—ନୃବଦ (ବୀର-ପ୍ରଶଂସକ) ବଚନ ସହ, ଜନମାନଙ୍କର ପୋଷକ; ଏବଂ ଦ୍ୱିବର୍ହା (ଦ୍ୱିଗୁଣ ମହିମାବାନ) ଭାବେ, ନିଜ ସହସ୍ରେ ଅକ୍ଷୁଣ୍ଣ। ଆମ ପାଖକୁ ମୁହଁ ଫେରାଇ ସେ ବୀର୍ୟ ପାଇଁ ବୃଦ୍ଧି କଲେ: ସେ ବିଶାଳ ଓ ପ୍ରଶସ୍ତ ହୁଅନ୍ତି, କର୍ତ୍ତାମାନଙ୍କ (କର୍ତୃଭିଃ) ଦ୍ୱାରା ସୁକୃତ, ସୁସଂସ୍କୃତ ହୋଇ।
म॒हान् । इन्द्रः॑ । नृ॒ऽवत् । आ । च॒र्ष॒णि॒ऽप्राः । उ॒त । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । सहः॑ऽभिः । अ॒स्म॒द्र्य॑क् । व॒वृ॒धे॒ । वी॒र्या॑य । उ॒रुः । पृ॒थुः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥महान् । इन्द्रः । नृवत् । आ । चर्षणिप्राः । उत । द्विबर्हाः । अमिनः । सहःभिः । अस्मद्र्यक् । ववृधे । वीर्याय । उरुः । पृथुः । सुकृतः । कर्तृभिः । भूत् ॥mahān | indraḥ | nṛ-vat | ā | carṣaṇi-prāḥ | uta | dvi-barhāḥ | aminaḥ | sahaḥ-bhiḥ | asmadryak | vavṛdhe | vīryāya | uruḥ | pṛthuḥ | su-kṛtaḥ | kartṛ-bhiḥ | bhūt