Sukta 5.43
बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त । देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥
बृ॒हद्वयो॑ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो॑ मिथु॒नास॑: सचन्त । दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥
bṛhádváyo bṛhaté túbhyam agne dhiyājúro mithunā́saḥ sacanta | devódevaḥ suhávo bhūtu máhyaṃ mā́ no mātā́ pṛthivī́ durmatáu dhāt ||
ହେ ଅଗ୍ନି, ବିଶାଳ ଓ ମହତ୍ ପ୍ରାଣଶକ୍ତିକୁ ଆମେ ତୁମ ସହ ଯୋଗ କରୁଛୁ; ଧୀ (ଧ୍ୟାନ)ର ଯୁଗଳ କର୍ମୀ ପରସ୍ପର ସଂଯୁକ୍ତ ହୋଇ ତୁମ ସହ ଚାଲନ୍ତି। ଦେବମାନଙ୍କ ମଧ୍ୟରେ ଦେବ, ମୋ ପାଇଁ ସୁହବ—ସହଜେ ଆହ୍ୱାନଯୋଗ୍ୟ—ହେଉ; ଆମ ମାତା ପୃଥିବୀ ଆମକୁ ବକ୍ରମତିରେ ନ ଧାରୁନ୍ତୁ।
बृ॒हत् । वयः॑ । बृ॒ह॒ते । तुभ्य॑म् । अ॒ग्ने॒ । धि॒या॒ऽजुरः॑ । मि॒थु॒नासः॑ । स॒च॒न्त॒ । दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥बृहत् । वयः । बृहते । तुभ्यम् । अग्ने । धियाजुरः । मिथुनासः । सचन्त । देवःदेवः । सुहवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुःमतौ । धात् ॥bṛhat | vayaḥ | bṛhate | tubhyam | agne | dhiyājuraḥ | mithunāsaḥ | sacanta | devaḥ-devaḥ | su-havaḥ | bhūtu | mahyam | mā | naḥ | mātā | pṛthivī | duḥ-matau | dhāt