Sukta 10.92
विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि । ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् ॥
वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि । ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पति॑म् ॥
viśām āsām abhayānām adhi-kṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi | gnābhir viśvābhir aditim anarvaṇam aktor yuvānaṃ nṛmaṇā adha patim ||
ଏହି ଅଭୟ ଜନସମୂହମାନଙ୍କ ଉପରେ ଅଧିକ୍ଷିତ, ସ୍ୱୟଂ-ଯଶସ୍ୱୀ (ସ୍ୱପ୍ରକାଶମାନ) ପରମକୁ ଆମେ ଗୀର୍ଭିଃ—ପ୍ରେରିତ ସ୍ତୁତିବାଣୀଦ୍ୱାରା ଗାଉଛୁ। ସର୍ବ ଗ୍ନାଭିଃ—ଦିବ୍ୟ ଶକ୍ତିମାନଙ୍କ ସହ—ଅନର୍ବଣ, ଅଖଣ୍ଡିତ ଓ ଅଚ୍ୟୁତ ଅଦିତିକୁ ଆମେ ଦୃଢ଼ କରୁଛୁ; ଉଷାର ଉଦୟରେ ଯୁବା, ନୃମଣା—ମନୁଷ୍ୟମାନଙ୍କରେ ଆନନ୍ଦ ପାଉଥିବା, ସତ୍ୟ ପତି (ପ୍ରଭୁ)କୁ।
वि॒शाम् । आ॒साम् । अभ॑यानाम् । अ॒धि॒ऽक्षित॑म् । गीः॒ऽभिः । ऊँ॒ इति॑ । स्वऽय॑शसम् । गृ॒णी॒म॒सि॒ । ग्नाभिः॑ । विश्वा॑भिः । अदि॑तिम् । अ॒न॒र्वण॑म् । अ॒क्तोः । युवा॑नम् । नृ॒ऽमनाः॑ । अध॑ । पति॑म् ॥विशाम् । आसाम् । अभयानाम् । अधिक्षितम् । गीःभिः । ऊँ इति । स्वयशसम् । गृणीमसि । ग्नाभिः । विश्वाभिः । अदितिम् । अनर्वणम् । अक्तोः । युवानम् । नृमनाः । अध । पतिम् ॥viśām | āsām | abhayānām | adhi-kṣitam | gīḥ-bhiḥ | oṃ iti | sva-yaśasam | gṛṇīmasi | gnābhiḥ | viśvābhiḥ | aditim | anarvaṇam | aktoḥ | yuvānam | nṛ-manāḥ | adha | patim