Sukta 10.156
अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधा स्तोत्रे वयो दधत् ॥
अग्ने॑ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठ॒: श्रेष्ठ॑ उपस्थ॒सत् । बोधा॑ स्तो॒त्रे वयो॒ दध॑त् ॥
agne ketúrvíśām asi préṣṭhaḥ śréṣṭha upasthá-sat | bódhā stótre váyo dádhat ||
ହେ ଅଗ୍ନେ, ତୁମେ ବିଶାମ୍ (ପ୍ରଜାମାନଙ୍କ) କେତୁ—ଧ୍ୱଜ-ପ୍ରକାଶ—ଅଟ; ସର୍ବାଧିକ ପ୍ରିୟ ଓ ଶ୍ରେଷ୍ଠ, ସମୀପେ ଉପସ୍ଥିତ ଆସୀନ। ଆମ ସ୍ତୋତ୍ର ପ୍ରତି ଜାଗ୍ରତ ହେଅ; ଆମ ମଧ୍ୟରେ ଆୟୁ ଓ ବଳର ପୂର୍ଣ୍ଣତା ସ୍ଥାପନ କର।
अग्ने॑ । के॒तुः । वि॒शाम् । अ॒सि॒ । प्रेष्ठः॑ । श्रेष्ठः॑ । उ॒प॒स्थ॒ऽसत् । बोध॑ । स्तो॒त्रे । वयः॑ । दध॑त् ॥अग्ने । केतुः । विशाम् । असि । प्रेष्ठः । श्रेष्ठः । उपस्थसत् । बोध । स्तोत्रे । वयः । दधत् ॥agne | ketuḥ | viśām | asi | preṣṭhaḥ | śreṣṭhaḥ | upastha-sat | bodha | stotre | vayaḥ | dadhat