Sukta 1.58
होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु । अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥
होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ । अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥
hótāraṃ saptá juhvò yájiṣṭhaṃ yáṃ vāgháto vṛṇáte adhvaréṣu | agníṃ víśveṣām aratíṃ vasū́nāṃ saparyā́mi práyasā yā́mi rátnaṃ ||
ସାତ ଜୁହୂ ସହିତ ହୋତୃ—ଯଜ୍ଞରେ ସର୍ବାଧିକ ଯୋଗ୍ୟ, ଯାହାକୁ କର୍ମଠମାନେ ଅଧ୍ୱରମାନେ ମଧ୍ୟରେ ବରଣ କରନ୍ତି—ସେହି ଅଗ୍ନିକୁ, ସମସ୍ତ ବସୁମାନଙ୍କର ଅଚ୍ୟୁତ ବାହକକୁ, ମୁଁ ନିଜ ଅର୍ପଣରେ ସେବା କରେ; ରତ୍ନରୂପ ଧନ ପାଇଁ ମୁଁ ତାହାଙ୍କ ପାଖକୁ ଯାଏ।
होता॑रम् । स॒प्त । जु॒ह्वः॑ । यजि॑ष्ठम् । यम् । वा॒घतः॑ । वृ॒णते॑ । अ॒ध्व॒रेषु॑ । अ॒ग्निम् । विश्वे॑षाम् । अ॒र॒तिम् । वसू॑नाम् । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥होतारम् । सप्त । जुह्वः । यजिष्ठम् । यम् । वाघतः । वृणते । अध्वरेषु । अग्निम् । विश्वेषाम् । अरतिम् । वसूनाम् । सपर्यामि । प्रयसा । यामि । रत्नम् ॥hotāram | sapta | juhvaḥ | yajiṣṭham | yam | vāghataḥ | vṛṇate | adhvareṣu | agnim | viśveṣām | aratim | vasūnām | saparyāmi | prayasā | yāmi | ratnam