Sukta 1.58
नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः । वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥
नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः । वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥
nú̄ cít sahojā́ amṛ́to ní túndate hótā yád dūtó ábhavad vivásvataḥ | ví sā́dhiṣṭhebhiḥ pathíbhī rájo mama ā́ devátātā havíṣā vivāsati ||
ଏବେ ମଧ୍ୟ ଶକ୍ତିରୁ ଜନ୍ମିତ ଅମୃତ (ଅଗ୍ନି) ପ୍ରେରିତ ହୁଏ—ଯେତେବେଳେ ହୋତା ବିବସ୍ୱତଙ୍କ ଦୂତ ହୁଏ। ସର୍ବାଧିକ ସିଦ୍ଧ ପଥମାନେ ଧରି ସେ ମୋର ରଜ (ଅନ୍ତରିକ୍ଷ) ଅତିକ୍ରମ କରେ, ଏବଂ ହବିଷା ଦ୍ୱାରା ଦେବତାମାନଙ୍କୁ ପ୍ରତ୍ୟକ୍ଷ ସନ୍ନିଧି ପାଇଁ ଆହ୍ୱାନ କରେ।
नु । चि॒त् । स॒हः॒ऽजाः । अ॒मृतः॑ । नि । तु॒न्दते॑ । होता॑ । यत् । दू॒तः । अभ॑वत् । वि॒वस्व॑तः । वि । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । रजः॑ । म॒मे॒ । आ । दे॒वऽता॑ता । ह॒विषा॑ । वि॒वा॒स॒ति॒ ॥नु । चित् । सहःजाः । अमृतः । नि । तुन्दते । होता । यत् । दूतः । अभवत् । विवस्वतः । वि । साधिष्ठेभिः । पथिभिः । रजः । ममे । आ । देवताता । हविषा । विवासति ॥nu | cit | sahaḥ-jāḥ | amṛtaḥ | ni | tundate | hotā | yat | dūtaḥ | abhavat | vivasvataḥ | vi | sādhiṣṭhebhiḥ | pathi-bhiḥ | rajaḥ | mame | ā | deva-tātā | haviṣā | vivāsati