Sukta 1.51
इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि । अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्त्स्याम ॥
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि । अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीरा॒: स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥
idáṃ námo vṛṣabhā́ya svarā́je satyáśuṣmāya taváse ’vāci | asmínnindra vṛjáne sárvavīrāḥ smátsūribhis táva śármant syāma ||
ଏହି ନମସ୍କାର ଶକ୍ତିଶାଳୀ ବୃଷଭ-ସ୍ୱରାଜଙ୍କୁ—ସତ୍ୟଶୁଷ୍ମ ଓ ତବସ୍ୱୀ ତୁମକୁ—ଉଚ୍ଚାରିତ ହୋଇଛି। ହେ ଇନ୍ଦ୍ର, ଏହି ବୃଜନ (ସଂଘର୍ଷ/ଯୁଦ୍ଧ)ରେ ଆମେ ସର୍ବବୀର ହେବାକୁ ପାରୁ; ଆମ ସୂରିମାନଙ୍କ (ପ୍ରକାଶିତ ନେତା) ସହିତ ତୁମ ଶର୍ମ (ଆଶ୍ରୟ-ଶାନ୍ତି)ରେ ବସିପାରୁ।
इ॒दम् । नमः॑ । वृ॒ष॒भाय॑ । स्व॒ऽराजे॑ । स॒त्यऽशु॑ष्माय । त॒वसे॑ । अ॒वा॒चि॒ । अ॒स्मिन् । इ॒न्द्र॒ । वृ॒जने॑ । सर्व॑ऽवीराः । स्मत् । सू॒रिऽभिः॑ । तव॑ । शर्म॑न् । स्या॒म॒ ॥इदम् । नमः । वृषभाय । स्वराजे । सत्यशुष्माय । तवसे । अवाचि । अस्मिन् । इन्द्र । वृजने । सर्ववीराः । स्मत् । सूरिभिः । तव । शर्मन् । स्याम ॥idam | namaḥ | vṛṣabhāya | sva-rāje | satya-śuṣmāya | tavase | avāci | asmin | indra | vṛjane | sarva-vīrāḥ | smat | sūri-bhiḥ | tava | śarman | syāma