Sukta 1.51
आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से । इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥
ā smā́ ráthaṃ vṛṣapā́ṇeṣu tiṣṭhasi śāryā́tasya prá-bhṛtā́ yéṣu mándase | índra yáthā sutásomeṣu cā́kano ’narvā́ṇaṃ ślókam ā́ róhase diví ||
ହେ ବୃଷପାଣି (ବଳବାନ ଭୁଜାଧାରୀ) ଇନ୍ଦ୍ର! ଶାର୍ୟାତଙ୍କ ଦ୍ୱାରା ଆଗକୁ ଆଣାଯାଇଥିବା ଅର୍ପଣମାନଙ୍କ ମଧ୍ୟରେ—ଯେଉଁଠାରେ ତୁମେ ଆନନ୍ଦ ପାଉଛ—ତୁମେ ରଥ ଉପରେ ଦଣ୍ଡାୟମାନ ହୁଅ। ହେ ଇନ୍ଦ୍ର! ଯେପରି ଚାପିତ ସୋମପାନରେ ତୁମେ ପ୍ରସନ୍ନ ହୁଅ, ସେପରି ମନର ଦିବିରେ ଅଖଣ୍ଡ ଶ୍ଲୋକ (ସ୍ତୁତି-ବାଣୀ) ଉପରେ ତୁମେ ଆରୋହଣ କର।
आ । स्म॒ । रथ॑म् । वृ॒ष॒ऽपाने॑षु । ति॒ष्ठ॒सि॒ । शा॒र्या॒तस्य॑ । प्रऽभृ॑ताः । येषु॑ । मन्द॑से । इन्द्र॑ । यथा॑ । सु॒तऽसो॑मेषु । चा॒कनः॑ । अ॒न॒र्वाण॑म् । श्लोक॑म् । आ । रो॒ह॒से॒ । दि॒वि ॥आ । स्म । रथम् । वृषपानेषु । तिष्ठसि । शार्यातस्य । प्रभृताः । येषु । मन्दसे । इन्द्र । यथा । सुतसोमेषु । चाकनः । अनर्वाणम् । श्लोकम् । आ । रोहसे । दिवि ॥ā | sma | ratham | vṛṣa-pāneṣu | tiṣṭhasi | śāryātasya | pra-bhṛtāḥ | yeṣu | mandase | indra | yathā | suta-someṣu | cākanaḥ | anarvāṇam | ślokam | ā | rohase | divi