Sukta 1.31
त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः । स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥
त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे॑व स्यू॒तं परि॑ पासि वि॒श्वत॑: । स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो॑न॒कृज्जी॑वया॒जं यज॑ते॒ सोप॒मा दि॒वः ॥
tvam agne prayata-dakṣiṇaṃ naraṃ varmeva syūtaṃ pari pāsi viśvataḥ | svādu-kṣadmā yo vasatau syona-kṛj jīva-yājaṃ yajate sopamā divaḥ ||
ହେ ଅଗ୍ନି, ଯେ ନର ସୁପ୍ରସ୍ତୁତ ଦକ୍ଷିଣା (ଦାନ) ସହିତ ଯଜ୍ଞ କରେ, ତୁମେ ତାକୁ ସବୁଦିଗରୁ ସିଲା ହୋଇଥିବା କବଚ ପରି ରକ୍ଷା କର। ଯେ ନିବାସରେ ସୁଖଦ ଆଶ୍ରୟ ଗଢ଼େ, ଯେ ଜୀବନକୁ ପୋଷେ ଏମିତି ଯଜ୍ଞ ଅର୍ପଣ କରେ—ସେ ଦିବ୍ୟ ପ୍ରକାଶମୟ ସ୍ୱର୍ଗ ଦିଗକୁ ଉପରେ ଉଠେ।
त्वम् । अ॒ग्ने॒ । प्रय॑तऽदक्षिणम् । नर॑म् । वर्म॑ऽइव । स्यू॒तम् । परि॑ । पा॒सि॒ । वि॒श्वतः॑ । स्वा॒दु॒ऽक्षद्मा॑ । यः । व॒स॒तौ । स्यो॒न॒ऽकृत् । जी॒व॒ऽया॒जम् । यज॑ते । सः । उ॒प॒ऽमा । दि॒वः ॥त्वम् । अग्ने । प्रयतदक्षिणम् । नरम् । वर्मइव । स्यूतम् । परि । पासि । विश्वतः । स्वादुक्षद्मा । यः । वसतौ । स्योनकृत् । जीवयाजम् । यजते । सः । उपमा । दिवः ॥tvam | agne | prayata-dakṣiṇam | naram | varma-iva | syūtam | pari | pāsi | viśvataḥ | svādu-kṣadmā | yaḥ | vasatau | syona-kṛt | jīva-yājam | yajate | saḥ | upa-mā | divaḥ